Chanting And Recitation Of Jain & Hindu Mantras And Prayers

लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है। इसका पाठ कसी भी नवरात्रि में माँ दुर्गा के सामने गाय के घी का दीपक प्रज्वलित करके और धूपबत्ती करके प्रतिदिन नौ पाठ करने चाहिए। इस पाठ से दुर्गा सप्तशती का फल मिलता है। इसके पाठ से सभी कामनाये सिद्ध हो जाती हैं। इसके पाठ से शत्रु बाधा एवं नवग्रह बाधा शांत हो जाती है। यह पाठ बीजमंत्रों से भरपूर है और माँ दुर्गा की सम्पूर्ण कृपा प्राप्त होती है। ॐ ब्रीं-ब्रीं-ब्रीं वेणु-हस्ते, स्तुत-सुर-बटुकै: हां गणेशस्य माता। स्वानन्दे नन्द-रुपे, अनहत-निरते, मुक्तिदे मुक्ति-मार्गे॥ हंसः सोहं विशाले, वलय-गति-हसे, सिद्ध-देवी समस्ता। हीं-हीं-हीं सिद्ध-लोके, कच-रुचि-विपुले, वीर-भद्रे नमस्ते॥१॥ ॐ हींकारोच्चारयन्ती, मम हरति भयं, चण्ड-मुण्डौ प्रचण्डे। खां-खां-खां खड्ग-पाणे, ध्रक-ध्रक ध्रकिते, उग्र-रुपे स्वरुपे॥ हुँ-हुँ हुँकांर-नादे, गगन-भुवि-तले, व्यापिनी व्योम-रुपे। हं-हं हंकार-नादे, सुर-गण-नमिते, चण्ड-रुपे नमस्ते॥२॥ ऐं लोके कीर्तयन्ती, मम हरतु भयं, राक्षसान् हन्यमाने। घ्रां-घ्रां-घ्रां घोर-रुपे, घघ-घघ-घटिते, घर्घरे घोर-रावे ॥ निर्मांसे काक-जंघे, घसित-नख-नखा, धूम्र-नेत्रे त्रि-नेत्रे। हस्ताब्जे शूल-मुण्डे, कुल-कुल ककुले, सिद्ध-हस्ते नमस्ते॥३॥ ॐ क्रीं-क्रीं-क्रीं ऐं कुमारी, कुह-कुह-मखिले, कोकिलेनानुरागे। मुद्रा-संज्ञ-त्रि-रेखा, कुरु-कुरु सततं, श्री महा-मारि गुह्ये॥ तेजांगे सिद्धि-नाथे, मन-पवन-चले, नैव आज्ञा-निधाने। ऐंकारे रात्रि-मध्ये, स्वपित-पशु-जने, तत्र कान्ते नमस्ते॥४॥ ॐ व्रां-व्रीं-व्रूं व्रैं कवित्वे, दहन-पुर-गते रुक्मि-रुपेण चक्रे। त्रिः-शक्तया, युक्त-वर्णादिक, कर-नमिते, दादिवं पूर्व-वर्णे॥ ह्रीं-स्थाने काम-राजे, ज्वल-ज्वल ज्वलिते, कोशिनि कोश-पत्रे। स्वच्छन्दे कष्ट-नाशे, सुर-वर-वपुषे, गुह्य-मुण्डे नमस्ते॥५॥ ॐ घ्रां-घ्रीं-घ्रूं घोर-तुण्डे, घघ-घघ घघघे घर्घरान्याङि्घ्र-घोषे। ह्रीं क्रीं द्रूं द्रोञ्च-चक्रे, रर-रर-रमिते, सर्व-ज्ञाने प्रधाने॥ द्रीं तीर्थेषु च ज्येष्ठे, जुग-जुग जजुगे म्लीं पदे काल-मुण्डे। सर्वांगे रक्त-धारा-मथन-कर-वरे, वज्र-दण्डे नमस्ते॥६॥ ॐ क्रां क्रीं क्रूं वाम-नमिते, गगन गड-गडे गुह्य-योनि-स्वरुपे। वज्रांगे, वज्र-हस्ते, सुर-पति-वरदे, मत्त-मातंग-रुढे॥ स्वस्तेजे, शुद्ध-देहे, लल-लल-ललिते, छेदिते पाश-जाले। किण्डल्याकार-रुपे, वृष वृषभ-ध्वजे, ऐन्द्रि मातर्नमस्ते॥७॥ ॐ हुँ हुँ हुंकार-नादे, विषमवश-करे, यक्ष-वैताल-नाथे। सु-सिद्धयर्थे सु-सिद्धैः, ठठ-ठठ-ठठठः, सर्व-भक्षे प्रचण्डे॥ जूं सः सौं शान्ति-कर्मेऽमृत-मृत-हरे, निःसमेसं समुद्रे। देवि, त्वं साधकानां, भव-भव वरदे, भद्र-काली नमस्ते॥८॥ ब्रह्माणी वैष्णवी त्वं, त्वमसि बहुचरा, त्वं वराह-स्वरुपा। त्वं ऐन्द्री त्वं कुबेरी, त्वमसि च जननी, त्वं कुमारी महेन्द्री॥ ऐं ह्रीं क्लींकार-भूते, वितल-तल-तले, भू-तले स्वर्ग-मार्गे। पाताले शैल-श्रृंगे, हरि-हर-भुवने, सिद्ध-चण्डी नमस्ते॥९॥ हं लं क्षं शौण्डि-रुपे, शमित भव-भये, सर्व-विघ्नान्त-विघ्ने। गां गीं गूं गैं षडंगे, गगन-गति-गते, सिद्धिदे सिद्ध-साध्ये॥ वं क्रं मुद्रा हिमांशोर्प्रहसति-वदने, त्र्यक्षरे ह्सैं निनादे। हां हूं गां गीं गणेशी, गज-मुख-जननी, त्वां महेशीं नमामि॥१०॥

श्रीमदानन्दरामायणान्तर्गत श्रीहनुमत्कवचं!! ✓ॐ श्री हनुमते नमः ॥ॐ अस्य श्रीहनुमत्कवच स्तोत्र महामन्त्रस्य,श्रीरामचन्द्र ऋषिः । श्रीहनुमान् परमात्मा देवता ।अनुष्टुप् छन्दः। मारुतात्मजेति बीजंअञ्जनीसूनुरिति शक्तिः। लक्ष्मणप्राणदातेति कीलकं ।रामदूतायेत्यस्त्रं । हनुमान् देवता इति कवचं ।पिङ्गाक्षोमित विक्रम इति मन्त्रः।श्रीरामचन्द्र प्रेरणया रामचन्द्र प्रीत्यर्थंमम सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥करन्यासःॐ ह्रां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं रुद्र मूर्तये तर्जनीभ्यां नमः ।ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः ।ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः ।ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः ।ॐ ह्रः ब्रह्मास्त्र निवारणाय करतल करपृष्ठाभ्यां नमः। अङ्गन्यासः ॥ॐ ह्रां अञ्जनीसुताय हृदयाय नमः ।ॐ ह्रीं रुद्र मूर्तये शिरसे स्वाहा ।ॐ ह्रूं रामदूताय शिकायै वषट् ।ॐ ह्रैं वायुपुत्राय कवचाय हुं ।ॐ ह्रौं अग्निगर्भाय नत्रत्रयाय वौषट् ।ॐ ह्रः ब्रह्मास्त्र निवारणाय अस्त्राय फट् ।भूर्भुवःसुवरोमिति दिग्बन्धः।अथ ध्यानम् ॥ध्यायेत्बालदिवाकर द्युतिनिभं देवारिदर्पापहंदेवेन्द्र प्रमुखं प्रशस्त यशसं देदीप्यमानं रुचा ।सुग्रीवादि समस्तवानरयुतं सुव्यक्त तत्त्वप्रियंसंसक्तारुण लोचनं पवनजं पीताम्बरालङ्कृतं ॥ १॥उद्यन् मार्ताण्डकोटि प्रकट रुचियुतं चारुवीरासनस्थंमौञ्जी यज्ञोपवीताभरण रुचिशिखं शोभितं कुण्डलाङ्गं ।भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनाद प्रमोदंध्यायेदेवं विधेयं प्लवग कुलपतिं गोष्पदीभूत वार्धिं ॥ २॥वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल मण्डितंनिगूढमुपसङ्गम्य पारावार पराक्रमं ॥ ३॥स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं ।कुण्डल द्वय संशोभिमुखांभोजं हरिं भजे ॥ ४॥सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुं ।उद्यद् दक्षिण दोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ५॥अथ मन्त्रः ॥ॐ नमो हनुमते शोभिताननाय यशोलङ्कृतायअञ्जनीगर्भ संभूताय। राम लक्ष्मणानन्दकाय।कपिसैन्य प्रकाशन पर्वतोत्पाटनाय।सुग्रीवसाह्यकरण परोच्चाटन। कुमार ब्रह्मचर्य।गंभीर शब्दोदय।ॐ ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा। ॐ नमो हनुमते एहि एहि।सर्वग्रह भूतानां शाकिनी डाकिनीनां विशमदुष्टानां सर्वेषामाकर्षयाकर्षय ।मर्दय मर्दय । छेदय छेदय । मर्त्यान् मारय मारय ।शोषय शोषय। प्रज्वल प्रज्वल।भूतमण्डल पिशाचमण्डल निरसनाय। भूतज्वर प्रेतज्वर चातुर्थिकज्वर ब्रह्मराक्षस पिशाचः छेदनः क्रिया विष्णुज्वर। महेशज्वरं छिन्धि छिन्धि। भिन्धि भिन्धि । अक्षिशूले शिरोभ्यन्तरे ह्यक्षिशूले गुल्मशूलेपित्तशूले ब्रह्म राक्षसकुल प्रबल नागकुलविष निर्विषझटितिझटिति । ॐ ह्रीं फट् घेकेस्वाहा ।ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टि शोदा दृष्टि हनुमते घो अज्ञापुरे स्वाहा ।स्वगृहे द्वारे पट्टके तिष्डतिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति ।तस्योच्चारण मात्रेण सर्वे ज्वरा नश्यन्ति ।ॐ ह्रां ह्रीं ह्रूं फट् घेघेस्वाहा ।श्री रामचन्द्र उवाच-हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।अधस्तु विष्णु भक्तस्तु पातु मध्यं च पावनिः ॥ १॥लङ्का विदाहकः पातु सर्वापद्भ्यो निरन्तरं ।सुग्रीव सचिव: पातु मस्तकं वायुनन्दनः ॥ २॥भालं पातु महावीरो भृवोर्मध्ये निरन्तरं ।नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ३॥कपोले कर्णमूले च पातु श्रीरामकिङ्करः ।नासाग्रं अञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ॥ ४॥वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचनः ।पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ॥ ५॥पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।भुजौ पातु महातेजाः करौ च चरणायुधः ॥ ६॥नगरन् नखायुधः पातु कुक्षौ पातु कपीश्वरः ।वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ ७॥लङ्का निभञ्जनः पातु पृष्ठदेशे निरन्तरं ।नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ॥ ८॥गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ।ऊरू च जानुनी पातु लङ्काप्रसाद भञ्जनः ॥ ९॥जङ्घे पातु कपिश्रेष्ठोः गुल्फौ पातु महाबलः ।अचलोद्धारकः पातु पादौ भास्कर सन्निभः ॥ १०॥अङ्गान्यमित सत्वाढ्यः पातु पादरङ्गुलीस्तथा ।सर्वाङ्गानि महाशूरः पातु रोमाणि चाक्मवित् ॥ ११॥हनुमत् कवचं यस्तु पठेद् विद्वान् विचक्षणः ।स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ १२॥त्रिकालमेककालं वा पठेन् मासत्रयं नरः ।सर्वान् रिपून् क्षणान् जित्वा स पुमान् श्रियमाप्नुयात् ॥ १३॥इति श्रीशतकोटि रामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्रीहनुमत्कवचं सम्पूर्णं॥

Sri Kameshwari Stuti श्री कामेश्वरी स्तुतिओम ऐं ह्मीं क्लीं कामाख्यायै नमः। ओम क्लीं क्लीं कामाख्या क्लीं क्लीं नमः। युधिष्ठिर उवाच -नमस्ते परमेशानि ब्रह्मरूपे सनातनि ।सुरासुरजगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ १॥न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः ।प्रसीद जगतामाद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥अनादिपरमा विद्या देहिनां देहधारिणी ।त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ ३॥त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः ।त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोऽस्तु ते ॥ ४॥त्वामाराध्य महेशोऽपि कृतकृत्यं हि मन्यते ।आत्मानं परमात्माऽपि कामेश्वरि नमोऽस्तु ते ॥ ५॥दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे ।लोकानां तापसंहर्त्रि कामेश्वरि नमोऽस्तु ते ॥ ६॥त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी ।करालवदने कालि कामेश्वरि नमोऽस्तु ते ॥ ७॥प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे ।प्रसीद परमे पूर्णे कामेश्वरि नमोऽस्तु ते ॥ ८॥त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते ।जगतां त्रिजगद्धात्रि कामेश्वरि नमोऽस्तु ते ॥ ९॥शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी ।त्वमेव मातर्विश्वेशि कामेश्वरि नमोऽस्तु ते ॥ १०॥।।इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुतिः सम्पूर्णा ।।

Shri Ganesh Keelak Stotram श्री गणेश कीलक स्तोत्रम्दक्ष उवाच।गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम्।मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः।।१।।मुद्गल उवाच।कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः।आदौ कीलकमेवं वै पठित्वा जपमाचरेत्।।२।।तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः।भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम्।।३।।समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम्।सिद्धिदं वै गणेशस्य कीलकं शृणु मानद।।४।।अस्य श्रीगणेशकीलकस्य शिव ऋषिः। अनुष्टुप्छन्दः। श्रीगणपतिर्देवता। ॐ गं योगाय स्वाहा। ॐ गं बीजम्। विद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः।छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान्।एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः।।५।।ततो ध्यायेद्गणेशानं ज्योतिरूपधरं परम्।मनोवाणीविहीनं च चतुर्भुजविराजितम्।।६।।शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते।विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम्।।७।।एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक्।पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत्।।८।।एकविंशतिवारं तु जपं कुर्यात्प्रजापते।ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत्।।९।।रूपं बलं श्रियं देहि यशो वीर्यं गजानन।मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते।।१०।।यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः।तदा त्वं तान्निहत्य स्म करोषि वीर्यसंयुतान्।।११।।तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः।शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः।।१२।।शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो।ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः।।१३।।चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत्।त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते।।१४।।तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप।स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः।।१५।।ब्रह्माणि योगहीनानि जातानि स्मरणेन ते।यदा पुनर्गणेशान योगयुक्तानि ते नमः।।१६।।इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो।सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः।।१७।।तथा मन्त्रा गणेशान वीर्यहीना बभूविरे।स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते।।१८।।सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो।मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः।।१९।।उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः।सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः।।२०।।गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने।0स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः।।२१।।गणेशकीलकमिदं कथितं ते प्रजापते।शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम्।।२२।।यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम्।स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम्।।२३।।एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा।स सर्वफलहीनश्च जायते नात्र संशयः।।२४।।सर्वसिद्धिकरं प्रोक्तं कीलकं परमाद्भुतम्।पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत्।।२५।।विष्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे।अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते।।२६।।ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः।गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह।।२७।।सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु।गणेशदर्शनेनैव ज्योतीरूपो बभूव ह।।२८।।दक्ष उवाच।Esho जडशरीरस्थः कथं देवादिकैर्युतम्।ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम्।।२९।।पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते।अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान्।।३०।।मुद्गलवाच।विमानस्थः स्वयं राजा कृपया तान् ददर्श ह।गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो।।३१।।स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे।योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा।।३२।।टीएतत्ते कथितं सर्वमैलस्य चरितं शुभम्।यः शृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम्।।३३।।।। इति श्रीमुद्गलमहापुराणे पङ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् ।।

// श्री महालक्ष्मी स्तोत्र //श्री गणेशाय नमः !!पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥३॥जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे ।दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः ।परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥शर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥पांडित्यं शोभते नैव न शोभंति गुणा नरे ।शीलत्वं नैव शोभेत महालक्ष्मि त्वयाविना ॥१२॥तावद्धिराजते रूपं तावच्छीलं विराजते ।तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥लक्ष्मि त्वयालंकृतमानवा ये पापैर्विमुक्तानृपलोकमान्याः ।गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥अस्माभिस्तव रूपलक्षणगुणान्वक्तुः कथं शक्यते ।मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥१६॥दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् ।कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायक्म कुरु ॥१७॥मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् ।देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्भुतम् ॥१८॥त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ।भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥१९॥त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।त्राहि त्राहि जगन्मातर्दारिद्र्यात्त्राहिवेगतः ॥२०॥नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनि ॥२१॥दारिद्र्यार्णवामग्नोऽहं निमग्नोऽहं रसातले ।मज्जंतं मां करे धृत्वा सुद्धर त्वं रमे द्रुतम् ॥२२॥किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।अनन्मे शरण नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥एतच्छुत्वाऽगस्तिवाक्यं ह्रष्यमाणा हरिप्रिया ।उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥२४॥लक्ष्मीरुवाच । यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।श्रृणोति च महाबागस्तस्याहं वशवर्तिनी ॥२५॥नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिनासह ॥२७॥सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् ।पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् ।विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥३०॥न शस्त्रानलतो यौधाद्भयं तस्य प्रजायते ।दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥मंदुराकरिशालासु गवां गोष्ठे समाहितः ।पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥इत्यगस्तिविरचितं श्रीमहालक्ष्मीस्तोत्रं संपूर्णम् ।।

Ganpati Stotraraj गणपति स्तोत्रराज अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥जगत्कारणं कारणाज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्वापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥रजोयोगततो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।सर्वविद्यानिधानं जगत्कारकं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥ ५॥तमोयोगिनं रुद्ररूप त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥ ६॥तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥निजैरौषधीस्तर्पयन्तं करोधैः सुरौघान्कलाभिः सुधास्राविणीभिः |दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेक शक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नमामः ॥ १०॥त्वदीये मनः स्थापयेदङ्गियुग्मे जनो विघ्नसङ्खान्न पीडां लभेत ।लसत्सूर्यविम्बे विशाले स्थितेऽयं जनो ध्वान्त पीडां कथं वा लभेत ॥ ११॥वयं भ्रामिताः सर्वथाऽज्ञानयोगा दलब्ध्वा तवाङ्किम बहून्वर्षपूगान् ।इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान सदा पाहि विश्वम्भराद्य ॥ १२॥एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने ।कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३ ॥

// श्री युगल अष्टकम् // कृष्णप्रेममयी राधा, राधाप्रेममयो हरिः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०१ कृष्णस्य द्रविणं राधा, राधाया द्रविणं हरिः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०२कृष्णप्राणमयी राधा, राधाप्राणमयो हरिः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०३कृष्ण द्रवमयी राधा, राधा द्रवमयो हरिः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०४कृष्ण गृहस्थिता राधा, राधा गृहस्थितो हरिः।जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०५कृष्ण चित्तस्थिता राधा, राधा चित्तस्थितो हरिः।जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०६नीलाम्बराधारा राधा, पीताम्बर धरो हरिः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०७वृन्दावनेश्वरी राधा, कृष्णौ वृन्दावनेशवरः।जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०८ -०-०-०-०-०-०-०-

मृतसंजीवनीमन्त्र शुक्रविद्या!! ✓ विनियोग:- ॐ अस्य श्रीमृतसंजीवनी महामन्त्रस्य ॐ सदाशिव ऋषिः । ॐ गायत्रीच्छंदः । ॐ पराशक्तिर्देवता। ॐ हं बीजं। ॐ सौं शक्तिः । ॐ हं कीलकं । ॐ श्रीं पराशक्ति प्रीत्यर्थं सर्वमंत्र संजीवनार्थं शीघ्रं उपनामं प्रसिद्धयर्थं जपे विनियोगः। ॥ ध्यानम्॥ॐ नमो भगवति मंत्रमातृके अक्षमालिके सर्वदा स्फुरसि सर्वहृदि वससि नमस्ते परारूपे । नमस्ते पश्यंती रूपे। नमस्ते मध्यमारूपे । नमस्ते वैखरी रूपे । सर्व तत्वात्मिके । सर्व विद्यात्मिके । सर्व शक्तयात्मिके । सर्व मन्त्र शाप विमोचनि। सर्वं मंत्र संजीवनि । सर्व देवतात्मिके भगवति मंत्रमातृके अक्षमालिके नमस्ते नमस्ते नमस्ते । इतिध्यात्वा ।मन्त्रो यथा - ॐ ह्रीं श्रीं ॐ भूर्भुवः स्वः ॐ अं आं इं ईं ह्रीं हैं ह्रीं जूं सः सर्वमंत्रान् संजीवय- संजीवय स्वाहा ।ॐ ह्रीं जूं सः ॐ भूर्भुवः स्वः ॐ उं ऊं ऋ ॠ सर्वमंत्र यंत्राणां संजीवनं कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः ॐ लूं लूं ॐ ह्रीं हंसः सोहं रं रं रं सर्व मंत्रान् संजीवय संजीवय कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः ॐ एं ऐं ॐ ह्रीं रं रं रं सर्वमंत्राक्षराणां उत्कीलय उत्कीलय स्वाहा । ॐ भूर्भुवः स्वः ॐ ओं औं अं अः ॐ ह्रीं ॐ ह्रीं ह्रीं सर्व मंत्र यंत्र तंत्रादीनां संजीवय संजीवय रं रं रं ठः ठः ठः सर्व मंत्र संजीवन कुरु कुरु स्वाहा । ॐ त्वमाद्यानंत शक्ति स्तवं प्रवाहो जायते त्वया । सास्मृता पूजिता ध्याता योगिनामपि सिद्धिदा ॥ ॐ त्वया बद्धा सर्व देवा भ्रमंति निज कर्मणा। सा तुष्टा सर्व मंत्राणां अमृता सिद्धि दायिनि ॥ ॐ मंत्र संजीवनी विद्या वसिष्ठेन च साश्रिता। सिद्धिदा सर्व मंत्राणां सदाशिव प्रसादतः ॥ जपादौ बा पाठादौ वा जपान्ते वा पाठान्ते । सप्तवारं पठित्वा तु शीघ्रं सिद्धिं लभेन्नरः॥॥ इति मृतसंजीवनी शुक्र विद्या ॥

।। श्री सुरभि स्तोत्रम् ।। ✓नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥नमो राधा प्रियायै च पद्मांशायै नमो नमः ।नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् ।श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः ।आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् ।जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः ।इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् ।न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डेइन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥

।। हेमामालिनी स्तोत्रम् ।।ध्यानं-हेमवर्णां चतुर्बाहुं रत्नसिंहासनस्थिताम्।पद्महस्ता वराभीति करां दन्तोल्लासितविग्रहम्।।कौस्तुभाभरणोपेतां कीर्तिमालाविभूषिताम्।त्रैलोक्यजननीं वन्दे हेममालिन्यरूपिणीम्।।स्तोत्रं-हेमवर्णे हेममाले हेमरत्नविभूषिते।हेमसिंहासिनि त्वं वै हेमलक्ष्मि नमोऽस्तु ते।।१।।सुवर्णशृङ्गारमयीं कनकद्युति भूषिताम्।रत्नराजिविलसिनीं हेमलक्ष्मीं नमाम्यहम्।।२।।हेमजटा जटाजूटे हेमकुण्डलमण्डिता।हेमांगदे हेमनूपुरे हेमकेयूरमण्डिता।।३।।हेमसारस्वती संयुक्ता हेमविष्णुपरायणा।हेमपद्मासनारूढा हेमनादविनादिनी।।४।।हेमवर्षाय च या नित्यं हेमकुबेरवन्दिता।हेमसंकल्पसम्पन्ना हेमकान्तिसमुद्धिता।।५।।हेमवर्णां शुभां देवीं रत्नमाल्यविभूषिताम्।कमलासनसंस्थां च भजे हेममालिनीं हरिप्रयाम्।।६।।सुवर्णसिंहासनस्थां स्वर्णकेयूरमण्डिताम्।स्वर्णकान्तिं समुद्धोष्यं स्वर्णलक्ष्मीं नमाम्यहम्।।७।।हिरण्यवर्णां हरिणीं सुवर्णाभरणोज्ज्वलाम्।चतुर्भुजां महालक्ष्मीं जयन्तीं नम्रतां गतः।।८।।हेममाल्यविलासिनीं रत्नसारविभूषिताम्।वज्रकान्तिं प्रदायिन्यां नमामि तां सुरेश्वरीम्।।९।।काञ्चनाभरणां देवीं चन्द्रकोटिसमप्रभाम्।हिरण्मयीं श्रीं ह्रीं क्लीं लक्ष्मीं नमाम्यहं सदा।।१०।।सर्वरत्ननिवासिन्यै सुवर्णस्रग्धरायै च।कमलाक्ष्यै महाशक्त्यै लक्ष्म्यै सौम्यायै नमः।।११।।स्वर्णसिन्धुतटायां या वसन्ति सदा सुरा।सा लक्ष्मीः पद्मपुष्पस्था मां कुर्यात्सर्वसंपदा।।१२।।हेमद्वीपविहारिण्यै काञ्चनदुर्गवासिनीम्।कुलदेवीं जगन्मातर्मां पालय शुभप्रदे।।१३।।हेमपुष्पैः समर्च्यां तां रत्नदीपैः सुसन्तुष्टाम्।नानाफलप्रदां देवीं वन्दे हेममालिनीम्।।१४।।हिरण्यकश्यपद्वेषीं विष्णुप्रियां महेश्वरीम्।स्वर्णसंपत्प्रदां लक्ष्मीं नमामि भक्तवत्सलाम्।।१५।।काञ्चनस्रग्धरां देवीं रत्नसिंहासनस्थिताम्।वेदविद्यामयीं लक्ष्मीं नमामि सर्वसिद्धये।।१६।।स्वर्णकीर्तिं प्रयच्छन्तीं स्वर्णरूपधरां शुभाम्।स्वर्णलक्ष्मीं नमाम्यद्य सुवर्णेन समृद्धये।।१७।।रत्नमालां च या धत्ते स्वर्णमालां च शोभनाम्।सा लक्ष्मीर्मम सर्वार्थं साधयत्वप्रणम्यताम्।।१८।।श्रीशक्तिं रत्नगर्भां च सुवर्णगात्रिनीं शुभाम्।श्रीं ह्रीं बीजसमायुक्तां लक्ष्मीं वन्दे पुनः पुनः।।१९।।स्वर्णराशिं करस्थां तां रत्नकुंभैः समन्विताम्।ददातु मे हेमलक्ष्मीः सर्वकामफलप्रदाम्।।२०।।हेमलता समुत्पन्ना कमलात्सहिते प्रभो।त्वं मे लक्ष्मीः सदा तिष्ठ न गृहं मम शोभय।।२१।।काञ्चनप्रभया युक्ता चन्द्रमण्डलमध्यगा।सा लक्ष्मीर्मे गृहे नित्यं भासमानं कुरु प्रभो।।२२।।स्वर्णपर्वतसङ्काशां स्वर्णतोरणमण्डिताम्।स्वर्णकलशहस्तां तां वन्दे हेममयीं शुभाम्।।२३।।स्वर्णरेखा समुद्भूतां ब्रह्मविद्याप्रकाशिनीम्।लक्ष्मीं ब्रह्मस्वरूपां तां नमामि सिद्धिदायिनीम्।।२४।।काञ्चनाङ्गीं वरांगीं च रत्नवेषविभूषिताम्।हेममालिनी लक्ष्मीं च सर्वशक्तिस्वरूपिणीम्।।२५।।श्रीं ह्रीं क्लीं हेममालिन्यै नमः कार्यसिद्धये।जप्यं स्तोत्रं मया प्रोक्तं लक्ष्मीप्रीत्यै सदा पठेत्।।२६।।।। इति श्री हेमा-मालिनी स्तोत्रं संपूर्णम् ।।

Navgrah Stuti नवग्रह स्तुति ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥ सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥ कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥ अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥ बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥ तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥ भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥ हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥ कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम्छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥ मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥ अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥ रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥ इतिग्रहस्तुति

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥कालरूपं कलयतां कालकालेश कारण ।कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ गुणातीत गुणाधार गुणबीज गुणात्मक ।गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥

• श्रीदुर्गा पञ्जरस्तोत्रम् •विनियोगः-ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।* ध्यानम् ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् ।हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् ।* स्तोत्रम् -यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ।सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥मार्कण्डेय उवाच -दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी ।मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥पथि देवालये दुर्गे अरण्ये पर्वते जले ।सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने ।महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे ।ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः ।ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी ।रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा ।वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥देव द्वारे नदी तीरे राजद्वारे च सङ्कटे ।पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् ।पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥रुद्रबाला महादेवी क्षमा च परमेश्वरी ।अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।।

Dash Mahavidya Stotra दश महाविद्या स्तोत्र

Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः ।अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ स्वर्गपाताललोकानां पृथिव्या जलधेरपि । नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च । उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने । नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे । मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥नमोऽभक्तविनाशाय नमो भक्तप्रियाय च । अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥ सर्वोत्पातविघाताय नमो लीलास्वरूपिणे । सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते। परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय ।अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥ य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् ।न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्। विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥ इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥

Bhootnath Ashtakam भूतनाथ अष्टकम्शिव शिव शक्तिनाथं संहारं शं स्वरूपं नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्।घन घन घूर्णिमेघं घङ्घोरं घं निनादं भज भज भस्मलेपं भजामि भूतनाथम्।।१।।कल कल कालरूपं कल्लोलं कं करालं डम डम डमनादं डम्बुरुं डङ्कनादम्।सम सम शक्तग्रीवं सर्वभूतं सुरेशं भज भज भस्मलेपं भजामि भूतनाथम्।।२।।रम रम रामभक्तं रमेशं रां रारावं मम मम मुक्तहस्तं महेशं मं मधुरम्। बम बम ब्रह्मरूपं वामेशं बं विनाशं भज भज भस्मलेपं भजामि भूतनाथम्।।३।।हर हर हरिप्रियं त्रितापं हं संहारं खम खम क्षमाशीलं सपापं खं क्षमणम्।द्दग द्दग ध्यानमूर्त्तिं सगुणं धं धारणं भज भज भस्मलेपं भजामि भूतनाथम्।।४।।पम पम पापनाशं प्रज्वलं पं प्रकाशं गम गम गुह्यतत्त्वं गिरीशं गं गणानाम्।दम दम दानहस्तं धुन्दरं दं दारुणं भज भज भस्मलेपं भजामि भूतनाथम्।।५।।गम गम गीतनाथं दूर्गमं गं गन्तव्यं टम टम रुण्डमालं टङ्कारं टङ्कनादम्।भम भम भ्रं भ्रमरं भैरवं क्षेत्रपालं भज भज भस्मलेपं भजामि भूतनाथम्।।६।।त्रिशूलधारी संहारकारी गिरिजानाथं ईश्वरं पार्वतीपति त्वं मायापति शुभ्रवर्णं महेश्वरम्।कैलासनाथ सतिप्राणनाथ महाकालं कालेश्वरं अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।७।।नीलकण्ठाय सत्स्वरूपाय सदाशिवाय नमो नमः यक्षरूपाय जटाधराय नागदेवाय नमो नमः।इन्द्रहाराय त्रिलोचनाय गङ्गाधराय नमो नमः अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।८।।तव कृपा कृष्णदासः भजति भूतनाथं तव कृपा कृष्णदासः स्मरति भूतनाथम्।तव कृपा कृष्णदासः पश्यति भूतनाथं तव कृपा कृष्णदासः पिबति भूतनाथम्।।९।।यः पठति निष्कामभावेन सः शिवलोकं सगच्छति। इति श्री कृष्णदासविरचितं भूतनाथ अष्टकम् सम्पूर्णम् ।।

Dash Lakshan Pooja दशलक्षण पूजाउत्तम छिमा मारदव आरजव भाव है,सत्य शौच संयम तप त्याग उपाव हैं |आकिंचन ब्रह्मचर्य धरम दस सार हैं,चहुँगति दुखते काढि मुक्ति करतार हैं ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय ! अत्र अवतर अवतर संवौषट ! अत्र तिष्ठ तिष्ठ ठ: ठ: ! अत्र मम सन्निहितो भव भव वषट !हेमाचलकी धार,मुनि-चित सम शीतल सुरभि |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जन्म-जरा-मृत्यु-विनाशनाये जलं निर्वपामिति स्वाहा |चन्दन केसर गार, होय सुवास दसों दिशा |भव-आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय संसारताप-विनाशनाये चन्दनं निर्वपामिति स्वाहा |अमल अखंडित सार, तंदुल चन्द्र समान शुभ |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अक्षय-पद प्राप्ताये अक्षतं निर्वपामिति स्वाहा |फुल अनेक प्रकार, महके ऊरघ -लोकलों |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय काम-बाण विध्वंसनाये पुष्पं निर्वपामिति स्वाहा |नेवज विविध निहार, उत्तम षट-रस संजुगत |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय क्षुधा-रोग विनाशनाये नैवेद्यं निर्वपामिति स्वाहा |बाती कपूर सुधार, दीपक-जोती सुहावनी |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय मोहान्धकार-विनाशनाये दीपं निर्वपामिति स्वाहा |अगर धुप विस्तार, फैले सर्व सुगन्धता |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अष्ट-कर्म-दह्नाये धूपं निर्वपामिति स्वाहा |फल की जाति अपार, घ्राण-नयन-मन-मोहने |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय महामोक्ष-फल प्राप्ताये निर्वपामिति स्वाहा |आठो दरब संवार, धानत अधिक उछाहसौ |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अनर्घ-पद-प्राप्तये अर्घं निर्वपामिति स्वाहा |जयमालादस लच्छन वंदो सदा, मनवांछित फलदाय |कहो आरती भारती, हम पर होहु सहाय ||उत्तम क्षिमा जहाँ मन होई, अंतर-बाहिर शत्रु न कोई |उत्तम मार्दव विनय प्रकाशे , नाना भेद ज्ञान सन भासे ||उत्तम आर्जव कपट मिटावे, दुरगति त्यागी सुगति उपजावे |उत्तम सत्य वचन मुख बोले, सो प्राणी संसार न डोले ||उत्तम शौच लोभ-परिहारी, संतोषी गुण-रतन भण्डारी |उत्तम संयम पाले ज्ञाता, नर-भव सकल करे ले साता ||उत्तम तप निर्वांछित पाले, सो नर करम-शत्रु को टाले |उत्तम त्याग करे जो कोई, भोगभूमि-सुर-शिवसुख होई ||उत्तम आकिंचन व्रत धारै, परम समाधी दसा विस्तारे |उत्तम ब्रह्मचर्य मन लावे, नर-सुर सहित मुकती-फल पावे ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जयमाला पूर्णार्घम निर्वपामिति स्वाहा |दोहा:-करे करम की निरजरा, भव पिंजरा विनाश |अजर अमर पद को लहे, द्यानत सुख की राश ||||पुष्पांजलि क्षिपेत||

Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम् नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥ विचित्रवसने देवि भवदुःखविनाशिनि । कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥ साधकाभीष्टदे देवि अन्नदानरतेऽनघे । विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् ।तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् ।ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥

#सूर्यस्तोत्रम् ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥कमलासन देवेश कर्मसाक्षिन्नमो नमः ।धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥इति सूर्यस्तोत्रं सम्पूर्णम् ।

Sri Ram Tandav Stotram श्री राम तांडव स्तोत्रम् जटाकटाहयुक्तमुण्डप्रान्तविस्तृतम् हरे: अपांगक्रुद्धदर्शनोपहार चूर्णकुन्तलः। प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहः स क्रुद्धतांडवस्वरूपधृक् विराजते हरि: ॥१॥ अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषंगिनः तथांजनेयऋक्षभूपसौरबालिनन्दना:। प्रचण्डदानवानलं समुद्रतुल्यनाशका: नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥२॥ कलेवरे कषायवासहस्तकार्मुकं हरे: उपासनोपसंगमार्थधृग्विशाखमंडलम्। हृदि स्मरन् दशाकृते: कुचक्रचौर्यपातकम् विदार्यते प्रचण्डतांडवाकृतिः स राघवः ॥३॥ प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणम् कुकूटकूटकूटकौणपात्मजाभिमर्दनम्। तथागुणंगुणंगुणंगुणंगुणेन दर्शयन् कृपीटकेशलंघ्यमीशमेक राघवं भजे ॥४॥ सवानरान्वितः तथाप्लुतम् शरीरमसृजा विरोधिमेदसाग्रमांसगुल्मकालखंडनैः। महासिपाशशक्तिदण्डधारकै: निशाचरै: परिप्लुतं कृतं शवैश्च येन भूमिमंडलम् ॥५॥ विशालदंष्ट्रकुम्भकर्णमेघरावकारकै: तथाहिरावणाद्यकम्पनातिकायजित्वरै:। सुरक्षिताम् मनोरमाम् सुवर्णलंकनागरीम् निजास्त्रसंकुलैरभेद्यकोटमर्दनम् कृतः ॥६॥ प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणै: विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः। पुलस्त्यनंदनात्मजस्य मुण्डरुण्डछेदनम् सुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥७॥ करालकालरूपिणं महोग्रचापधारिणम् कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्। विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकम् भजामि जित्वरम् तथोर्मिलापते: प्रियाग्रजम् ॥८॥ इतस्ततः मुहुर्मुहु: परिभ्रमन्ति कौन्तिकाः अनुप्लवप्रवाहप्रासिकाश्च वैजयंतिका:। मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां अभिक्रमेण राघवस्य तांडवाकृते: गताः ॥९॥ निराकृतिं निरामयं तथादिसृष्टिकारणम् महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम्। निरंकुशं निजात्मभक्तजन्ममृत्युनाशकम् अधर्ममार्गघातकम् कपीशव्यूहनायकम् ॥१०॥ करालपालिचक्रशूलतीक्ष्णभिंदिपालकै: कुठारसर्वलासिधेनुकेलिशल्यमुद्गरै:। सुपुष्करेण पुष्करांच पुष्करास्त्रमारणै: सदाप्लुतं निशाचरै: सुपुष्करंच पुष्करम् ॥११॥ प्रपन्नभक्तरक्षकम् वसुन्धरात्मजाप्रियम् कपीशवृंदसेवितं समस्तदूषणापहम्। सुरासुराभिवंदितं निशाचरान्तकम् विभुं जगद्प्रशस्तिकारणम् भजेह राममीश्वरम् ॥१२॥ इति श्रीभागवतानंद गुरुणा विरचिते श्रीराघवेंद्रचरिते इन्द्रादि देवगणै: कृतं श्रीराम तांडव स्तोत्रम् सम्पूर्णम्।।

Kalika Stotram कालिका स्तोत्रम् दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत् सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः । भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ १॥ लसन्नासामुक्ता निजचरणभक्तावनविधौ समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा । अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ २॥ रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर- स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः । विराजत्कोटीरा विमलतरहीरा भरणभृत् जगद्धुर्या काली मम०॥ ३॥ वसाना कौशेयं कमलनयना चन्द्रवदना दधाना कारुण्यं विपुलजघना कुन्दरदना । पुनाना पापाद्या सपदि विधुनाना भवभयं जगद्धुर्या काली मम०॥ ४॥ रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात् समागाद्या रागाज्झटिति यमुनागाधिपमसौ । नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता जगद्धुर्या काली मम मनसि-॥ ५॥ विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका । नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥ ६॥ यमुनाचलद्दमुना दुःखदवस्य देहिनाम् । अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥ ७॥ अनुभूति सतीप्राणपरित्राणपरायणा । देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥ ८॥ य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः । देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥ ९॥ इति कालिकास्तोत्रम् सम्पूर्णम् ॥

मृतसञ्जीवन स्तोत्रम् एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥ सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥ २॥ समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥३॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥ दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥ अष्टदसभुजोपेतो दण्डाभयकरो विभुः । यमरूपि महादेवो दक्षिणस्यां सदावतु ॥६॥ खड्गाभयकरो धीरो रक्षोगणनिषेवितः । रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥७॥ गदाभयकरः प्राणनायकः सर्वदागतिः । वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सर्वविद्यानमधिनायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु । शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥ भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्षिणामूर्ति :, दर्न्तान्मे गिरिशोऽवतु ॥१४॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥ कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ मे जगद्दर्ता जङ्घे मे जगदम्बिका । पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥ गिरिशः पातु मे भार्यां भवः पातु सुतान्मम । मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः । एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् । सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः । सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ । आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥२३॥ कालमृयुमपि प्राप्तमसौ जयति सर्वदा । अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥ युद्दारम्भे पठित्वेदमष्टाविशतिवारकं । युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै । विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥२६॥ प्रातरूत्थाय सततं यः पठेत्कवचं शुभं । अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥ सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः । अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥ विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् । तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥२९॥ मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥३०॥

Shri Jagannath Chalisa श्री जगन्नाथ चालीसा

Ashwath Stotram अश्वत्थ स्तोत्रम् ★ नारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २॥ अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३॥ स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४॥ पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः । तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५॥ त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते । त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६॥ चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे । बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७॥ अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले । अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८॥ क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते । सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९॥ एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः । नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १०॥ अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः । हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२॥ सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् । परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३॥ अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् । शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४॥ अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने । नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे । अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६॥ यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते । यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७॥ अश्वत्थ सुमहाभाग सुभग प्रियदर्शन । इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८॥ आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् । देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९॥ ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः । अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥ २०॥ ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः । आवृत्य लक्षसङ्ख्यं तत् स्तोत्रमेतत् सुखी भवेत् ॥ २१॥ ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः । पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ॥ २२॥ एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् । अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३॥ मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् । विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४॥ पदे पदान्तरं गत्वा करचेष्टाविवर्जितः । वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५॥ अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः । धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ॥ २६॥ अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः । एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७॥ अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् । अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ॥ २८॥ एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते । यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९॥ छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः । अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३०॥ ॥ इति अश्वत्थ स्तोत्रं सम्पूर्णम् ॥

Sri Kumari Stotram श्री कुमारी स्तोत्रम् ★ जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि । पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥ त्रिपुरां त्रिगुणाधारां त्रिवर्गज्ञानरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥२॥ कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम् ॥३॥ अणिमादिगुणाधरामकाराद्यक्षरात्मिकाम् । अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ॥४॥ कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् । कामदां करुणोदारां कालिकां पूजयाम्यहम् ॥५॥ चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् । पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥६॥ सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् । सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ॥७॥ दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् । पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥८ ॥ सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्। सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् ॥९॥ इति श्री कुमारी स्तोत्रम् ।

Chandra Stotra चन्द्र स्तोत्र ★ श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: । चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्।।2।। क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: । हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।। सुधायया यत्किरणा: पोषयन्त्योषधीवनम्। सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम्।।4।। राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् । ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ।।5।। इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम् ।।

Sri Chaitanya Shiksha Ashtakam श्री चैतन्य शिक्षा अष्टकम् ★ चेतोदर्पणमार्जनं भव-महादावाग्नि-निर्वापणम् श्रेयः-कैरवचन्द्रिकावितरणं विद्यावधू-जीवनम् । आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम् सर्वात्मस्नपनं परं विजयते श्रीकृष्ण-संकीर्तनम् ॥१॥ नाम्नामकारि बहुधा निज सर्व शक्तिस तत्रार्पिता नियमितः स्मरणे न कालः। एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृश-मिहाजनि नानुरागः॥२॥ तृणादपि सुनीचेन तरोरपि सहिष्णुना। अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥ न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये। मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥ अयि नन्दतनुज किंकरं पतितं मां विषमे भवाम्बुधौ। कृपया तव पादपंकज-स्थितधूलिसदृशं विचिन्तय॥५॥ नयनं गलदश्रुधारया वदनं गदगदरुद्धया गिरा। पुलकैर्निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति॥६॥ युगायितं निमेषेण चक्षुषा प्रावृषायितम्। शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥ आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्-मर्महतां करोतु वा। यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्-तु स एव नापरः॥८॥ शिक्षाष्टकम् (हिंदी भावानुवाद) चित्त रूपी दर्पण को स्वच्छ करने वाले, भव रूपी महान अग्नि को शांत करने वाले, चन्द्र किरणों के समान श्रेष्ठ, विद्या रूपी वधु के जीवन स्वरुप, आनंद सागर में वृद्धि करने वाले, प्रत्येक शब्द में पूर्ण अमृत के समान सरस, सभी को पवित्र करने वाले श्रीकृष्ण कीर्तन की उच्चतम विजय हो॥१॥ हे प्रभु, आपने अपने अनेक नामों में अपनी शक्ति भर दी है, जिनका किसी समय भी स्मरण किया जा सकता है। हे भगवन्, आपकी इतनी कृपा है परन्तु मेरा इतना दुर्भाग्य है कि मुझे उन नामों से प्रेम ही नहीं है॥२॥ स्वयं को तृण से भी छोटा समझते हुए, वृक्ष जैसे सहिष्णु रहते हुए, कोई अभिमान न करते हुए और दूसरों का सम्मान करते हुए सदा श्रीहरि का भजन करना चाहिए॥३॥ हे जगत के ईश्वर! मैं धन, अनुयायी, स्त्रियों या कविता की इच्छा न रखूँ। हे प्रभु, मुझे जन्म जन्मान्तर में आपसे ही अकारण प्रेम हो॥४॥ हे नन्द के पुत्र, इस दुर्गम भव-सागर में पड़े हुए मुझ सेवक को अपने चरण कमलों में स्थित धूलि कण के समान समझ कर कृपा कीजिये॥५॥ हे प्रभु, कब आपका नाम लेने पर मेरी आँखों के आंसुओं से मेरा चेहरा भर जायेगा, कब मेरी वाणी हर्ष से अवरुद्ध हो जाएगी, कब मेरे शरीर के रोम खड़े हो जायेंगे ॥६॥ श्रीकृष्ण के विरह में मेरे लिए एक क्षण एक युग के समान है, आँखों में जैसे वर्षा ऋतु आई हुई है और यह विश्व एक शून्य के समान है॥७॥ उनके चरणों में प्रीति रखने वाले मुझ सेवक का वह आलिंगन करें या न करें, मुझे अपने दर्शन दें या न दें, मुझे अपना मानें या न मानें, वह चंचल, नटखट श्रीकृष्ण ही मेरे प्राणों के स्वामी हैं, कोई दूसरा नहीं॥८॥

‘Om Sohum‘ Mantrajaap ‘ॐ सोsहम्‘ मंत्रजाप 108 times

Jaya Panchakam जय पंचकम् ஜெய் பஞ்சகம் ★ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥१॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः। हनुमान् शत्रु सैन्यानां निहन्ता मारुतात्मजः ॥२॥ न रावण सहस्रं मे युद्धे प्रति बलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३॥ अर्दयित्वा पुरीं लङ्कां अभिवाद्य च समृद्धार्थो गमिष्यामि मिषतां सर्व रक्षसाम् ॥४॥ तस्य सन्नाद शब्देन तेऽभवन् भय शङ्किताः ददृशुश्च हनूमन्तं संध्या - मेघं इवोन्नतम् ॥५॥

Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥ राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् । राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥ षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥ श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् । दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥ लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम् श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥ धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥ कर्पूरागरुकुङ्कुमाङ्ङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥ गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् । गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥

Gayatri Bhujang Stotra गायत्री भुजंग स्तोत्र ★ उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि वन्द्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥ सदा हंसयानां स्फुरद्रत्नवस्त्रां वराभीति हस्तां खगाम्नायरूपाम् । स्फुरत्स्वाधिकामक्षमालां च कुम्भं दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥ प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं किरीटोल्लसद्रत्नराजप्रभाताम् । विशालोरु भासां कुचाश्लेषहारां भजे बालिकां ब्रह्मविद्यां विनोदाम् ॥ ३ ॥ स्फुरच्चन्द्र कान्तां शरच्चन्द्रवक्त्रां महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् । त्रिशूलाक्ष हस्तां त्रिनेत्रस्य पत्नीं वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ४ ॥ षडाधाररूपां षडाधारगम्यां षडध्वातिशुद्धां यजुर्वेदरूपाम् । हिमाद्रेस्सुतां कुन्द दन्तावभासां महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ ५ ॥ सुषुम्नान्तरस्थां सुधासेव्यमानां उकारान्तरस्थां द्वितीयस्वरूपाम् । सहस्रान्तरस्थां प्रभासत्रिनेत्रां सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ ६ ॥ सदासामगानां प्रियां श्यामलाङ्गीं अकारान्तरस्थां करोल्लासिचक्राम् । गदापद्महस्तां ध्वनत्पाञ्चजन्यां खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ७ ॥ प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां अहं लम्बमान स्तनप्रान्तहारम् । महानीलरत्न प्रभाकुण्डलाभ्यां स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ८ ॥ सदातत्त्वमस्यादि वाक्यैकगम्यां अहं मोक्षमार्गैक पाथेयरूपाम् । महासिद्धविद्याधरैस्सेव्यमानां भजेहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ ९ ॥ हृदम्भोजमध्ये परम्नायमीडे सुखासीन सद्राजहंसां मनोज्ञाम् । सदा हेमभासां त्रयीविद्यमध्यां भजाम स्तुवामो वदाम स्मरामः ॥ १० ॥ सदा तत्पदैस्तूयमानां सवित्रीं वरेण्यां महाभर्गरूपां त्रिनेत्राम् । सदा देवदेवादि देवस्यपत्नीं अहं धीमहीत्यादि पादैक जुष्टाम् ॥ ११ ॥ अनाथं दरिद्रं दुराचारयुक्तं शठं स्थूलबुद्धिं परं धर्महीनम् । त्रिसन्ध्यां जपध्यानहीनं महेशीं परं चिन्तयामि प्रसीद त्वमेव ॥ १२ ॥ इतीदं भुजङ्गं पठेद्यस्तु भक्त्या समाधाय चित्ते सदा श्री भवानीम् । त्रिसन्ध्यस्वरूपां त्रिलोकैक वन्द्यां स मुक्तो भवेत्सर्वपापै रजस्रम् ॥ १३ ॥

Tripursundari Stotra त्रिपुरसुन्दरी स्तोत्र ★ कदंबवनचारिणीं मुनिकदम्बकादंविनीं, नितंबजितभूधरां सुरनितंबिनीसेविताम् | नवंबुरुहलोचनामभिनवांबुदश्यामलां, त्रिलोचनकुटुम्बिनीं त्रिपुरसुंदरीमाश्रये ॥|1| कदंबवनवासिनीं कनकवल्लकीधारिणीं, महार्हमणिहारिणीं मुखसमुल्लसद्वारुणींम् | दया विभव कारिणी विशद लोचनी चारिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये ॥|2| कदंबवनशालया कुचभरोल्लसन्मालया, कुचोपमितशैलया गुरुकृपालसद्वेलया | मदारुणकपोलया मधुरगीतवाचालया , कयापि घननीलया कवचिता वयं लीलया ॥|3| कदंबवनमध्यगां कनकमंडलोपस्थितां, षडंबरुहवासिनीं सततसिद्धसौदामिनीम् | विडंवितजपारुचिं विकचचंद्रचूडामणिं , त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥|4| कुचांचितविपंचिकां कुटिलकुंतलालंकृतां , कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् | मदारुणविलोचनां मनसिजारिसंमोहिनीं , मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥|5| स्मरेत्प्रथमपुष्प्णीं रुधिरबिन्दुनीलांबरां, गृहीतमधुपत्रिकां मधुविघूर्णनेत्रांचलाम् | घनस्तनभरोन्नतां गलितचूलिकां श्यामलां, त्रिलोचनकुटंबिनीं त्रिपुरसुंदरीमाश्रये ॥|6| सकुंकुमविलेपनामलकचुंबिकस्तूरिकां , समंदहसितेक्षणां सशरचापपाशांकुशाम् | असेष जनमोहिनी मरूण माल्य भुषाम्बरा, जपाकुशुम भाशुरां जपविधौ स्मराम्यम्बिकाम ॥|7| पुरम्दरपुरंध्रिकां चिकुरबंधसैरंध्रिकां , पितामहपतिव्रतां पटुपटीरचर्चारताम् | मुकुंदरमणीं मणिलसदलंक्रियाकारिणीं, भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥|8| इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं त्रिपुरसुन्दरीस्तोत्रं संपूर्णम् ।

Nirvaan Kaand निर्वाण काण्ड ★ (दोहा) वीतराग वन्दौं सदा, भाव सहित सिर नाय | कहूं काण्ड निर्वाण की, भाषा सुगम बनाये || (चौपाई) अष्टापद आदीश्वर स्वामि, वासुपूज्य चम्पापुरि नामि | नेमिनाथ स्वामी गिरनार, वन्दौं भाव भगति उर धार ||1|| चरम तीर्थकर चरम शरीर, पावापुरि स्वामि महावीर | शिखर समेद जिनेसुर बीस, भावसहित वन्दौं निश दीस ||2|| वरदत्तराय रु इन्द मुनिंद, सायरदत्त आदि गुणवृन्द | नगर तारवर मुनि उठकोडी, वन्दौं भाव सहित कर जोडी ||3|| श्रीगिरनार शिखर विख्यात, कोडी बहत्तर अरु सौ सात | सम्बु प्रद्युम्न कुमर द्वै भाय, अनिरुध आदि नमूं तसु पाय ||4|| रामचन्द्र के सुत द्वै वीर, लाडनरिंद आदि गुणधीर | पांच कोडी मुनि मुक्ति मंझार, पावागिरि वन्दौं निरधार ||5|| पांडव तीन द्रविड़ राजान, आठ कोडी मुनि मुक्ति पयान | श्रीशत्रुंजय के सीस, भावसहित वन्दौं निश दीस ||6|| जे बलभद्र मुक्ति में गये, आठ कोडी मुनि औरहू भये | श्रीगजपन्थ शिखर सुविशाल, तिनके चरण नमूं तिहूँ काल ||7|| राम हणु सुग्रीव सुडील, गव गवाख्य नील महानील | कोडी निन्याणव मुक्ति पयान, तुंगीगिरि वन्दौं धरि ध्यान ||8|| नंग अनंग कुमार सुजान, पांच कोडी अरु अर्ध प्रमान | मुक्ति गये सोनागिरि शीस, ते वन्दौं त्रिभुवन पति ईस ||9|| रावण के सुत आदिकुमार, मुक्ति गये रेवा तट सार | कोटि पंच और लाख पचास, ते वन्दौंधरि परम हुलास ||10|| रेवानदी सिद्धवर कूट, पश्चिम दिशा देह जहँ छूट | द्वे चक्री दश कामकुमार, उठकोडी वन्दौं भव पार ||11|| बडवानी बडनयर सुचंग, दक्षिण दिशि गिरि चूल उतंग | इन्द्रजीत अरु कुम्भ जो कर्ण, ते वन्दौं भव सागर तरण ||12|| सुवरणभद्र आदि मुनि चार, पावागिरि वर शिखर मंझार | चेलना नदी तीर के पास, मुक्ति गये नित वन्दौं नित तास ||13|| फलहोडी बडगाम अनूप, पश्चिम दिशा द्रोणगिरि रूप | गुरुदत्तादी मुनिसुर जहाँ, मुक्ति गये वन्दौं नित तहां ||14|| बाल महाबाल मुनि दोय, नागकुमार मिले त्रय होय | श्रीअष्टापद मुक्ति मंझार, ते वन्दौं नित सुरत सँभार ||15|| अचलापुर की दिश ईसान, तहां मेढगिरि नाम प्रधान | साढ़े तीन कोडी मुनिराय, तिनके चरण नमूं चित लाय ||16|| वंसस्थल वन के ढिग होय, पश्चिम दिशा कुंथुगिरी सोय | कुलभूषण दिशिभूषण नाम, तिनके चरणनि करूं प्रणाम ||17|| जसरथ राजा के सुत कहे, देश कलिंग पांच सौ लहे | कोटिशिला मुनि कोडी प्रमान, वन्दन करूं जोरि जग पान ||18|| समवशरण श्री पार्श्व जिनन्द, रेसिन्दीगिरि नयनानंद | वरदत्तादि पंच ऋषिराय, ते वन्दौं नित धरम जिहाज ||19|| तीन लोक ते तीरथ जहाँ, नित प्रति वन्दन कीजै तहां | मन-वच-काय सहित सिर नाय, वन्दन करहिं भविक गुण गाय ||20|| संवत सतरह सौ इकताल, आश्विन सुदि दशमी सुविशाल | भक्त वन्दन करहिं त्रिकाल, जय निर्वाणकांड गुणमाल ||21||

Jain Punyavardhak Stotra जैन पुण्यवर्धक स्तोत्र

Girnarji Neminath Puja गिरनार जी नेमिनाथ पूजा ★ 1. स्थापना 2. अष्टक 3. पंच कल्याणक 4. जयमाला

Vairagya Ashtakam वैराग्य अष्टकम् गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता, स्ववेश्मन्यारक्षा क्रियत इति मार्गोऽयमुचितः। नरानोद्वाद्गेहात् प्रतिदिनं समाकृष्यनयतः, कृतान्तात् किं शङ्का न हि भवति रजाग्रत जनाः ॥1॥ क्वचिद्विद्वगोष्ठी क्वचिदपि सुरामत्त कलहः, क्वचिद्वीणावादः क्वचिदऽपि च हा हेतिरुदितम्। क्वचिद्रम्यारामा क्वचिदऽपि जराजर्जरतनुर् । न ज्ञातं (जाने) संसारः किममृतमयः किं विषमयः ।।2।। वपुः कुब्जीभूतः गतिरपि तथा यष्टि शरणा, विशीर्णा दन्तालिः श्रवण विकलं श्रोत्रयुगलम्। शिरः शुक्लं चक्षुस्तिमिर पटलैरावृत महो, मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥३॥ अजानन्दाहात्म्यं पततिशलभो दीप दहने, समीनोऽप्यज्ञानाद्-वडिशयुत-मश्नाति पिशितम्। विजानन्तोऽप्येते वयमिह विपज्जाल जटिलान्, नमुंचया कामान्नहो गहनं मोह महिमा ।।4।। आदित्यस्यगता गतैरह रहः संक्षीयते जीवतं, व्यापारैर्बहु कार्यभार गुरुभिः कालो न विज्ञायते। दृष्ट्वा जन्म जरा विपत्ति मरणं, त्रासं च नोत्पद्यते, पीत्त्वा मोहमयीं प्रमाद मदिरामुन्मत्त भूतं जगत् ।।5।। निः स्वोवष्टि शतं शती दशशतं लक्षं सहस्राधिपो, लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वांछति। चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वांछति, ब्रह्मा शैव पदं शिवो व हरिपदं ह्याशावधिं को गतः ॥6॥ जीर्णो एव मनोरथाः स्वहृदये स्यातं जरा यौवनं, हन्ताङ्गेषु गुणाश्च वन्ध्य फलतां यातागुणज्ञैर्विना। किंयुक्तं सहसाम्युपैति बलवान् काल कृतान्तोऽक्ष्मी, ह्याज्ञात स्मर जिनेन्द्राघ्रि युगलं मुक्त्वास्ति नान्यागति ।।7।। आशा नाम नदी मनोरथ जलं, तृष्णा तरङ्गाकुला, राग ग्राहवती वितर्क विहगा धैर्य द्रुमध्वंसिनी। मोहावर्तसुदुस्तरातिगहना प्रोत्तुड्ग् चिन्ता तरी, तस्याः पारगता विशुद्ध मनसो नन्दति योगीश्वराः ॥8॥

Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र ★ न ताते न माता न बंधुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।।11 भवाब्धाव-पारे, महादुःख भीरुः, प्रपात प्रकामी प्रलोभी प्रमातः। कु संसार पाश प्रबद्ध सदाऽहं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥2॥ न जानामि दानं न च ध्यान योगं, न जानामि तंत्रं न च स्तोत्र मंत्रम्। न जानामि पूजां न च न्यास योगम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥३॥ न पुण्यं जानामि न जानामि तीर्थ, न जानामि मुक्तिं लयं वा कदाचित्। न जानामि भक्तिं व्रतं वापि देवः, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥4॥ कुकर्मी कुसङ्गी कुबुद्धिः कुदासः, कुलाचार हीनः कदाचार लीनः । कुदृष्टिः कुवाक्य प्रबन्ध सदाऽहम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।॥5॥ प्रजेशं 'रमेशं' महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाऽहं शरण्ये, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥6॥ विवादे विषादे प्रमादे प्रदेशे, जले चानले पर्वते शत्रु मध्ये। अरण्ये शरण्ये सदा मां त्रपाहि, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥7॥ अनाथो दरिद्रो जरा रोग युक्तो, महा क्षीण दीनः सदा जाड्य वक्त्र। येयोगीन्द्रसागर प्रभो! दीन हीनं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥8॥

Panch Mahaguru Bhakti पंच महा गुरु भक्ति ★ मणुयणाइंद - सुर-धरिय-छत्तत्तया, पंचकल्लाण - सोक्खावली-पत्तया। दंसणं णाण झाणं अणंतं बलं, ते जिणा दिंतु अम्हं वरं मंगलं॥ जेहिं झाणग्गि-बाणेहिं अइ-दड्ढयं, जम्म-जर-मरण-णयरत्तयं दड्ढयं, जेहिं पत्तं सिवं सासयं ठाणयं, ते महं दिंतु सिद्धा वरं णाणयं॥ पंचहाचार - पंचग्गि - संसाहया, बारसंगाइ - सुअ - जलहि-अवगाहया। मोक्ख-लच्छी महंती महंते सया, सूरिणो दिंतु मोक्खंगया संगया॥ घोर - संसार - भीमाडवी - काणणे, तिक्ख-वियरालणह-पाव-पंचाणणे। णठ-मग्गाण जीवाण पहदेसिया, वंदिमो ते उवज्झाय अम्हे सया॥ उग्ग-तव-चरण-करणेहिं झीणं गया, धम्म-वर-झाण-सुक्केक्क-झाणं गया। णिब्भरं तव सिरी ए समालिंगया, साहवो ते महं मोक्ख-पह-मग्गया॥ एण थोत्तेण जो पंचगुरु वंदए, गुरुय-संसार-घण-वेल्लि सो छिंदए। लहइ सो सिद्धि-सोक्खाइं बहुमाणणं, कुणइ कम्मिंधणं पुंज-पज्जालणं॥ अरुहा सिद्धा-इरिया उवज्झाया साहु-पंचपरमेष्ठी। एयाण-णमोयारा भवे भवे मम सुहं दिंतु॥ अञ्चलिका इच्छामि भंते! पंचमहागुरुभत्तिं काउस्सग्गो कओ, तस्सालोचेउं, अ-महा-पाडिहेर-संजुत्ताणं अरिहंताणं, अ-गुण-संपण्णाणं उड्ढ-लोय-मत्थयम्मि पइियाणं सिद्धाणं, अ-पवयण-माउ-संजुत्ताणं आयरियाणं, आयारादि-सुद-णाणोवदेसयाणं, उवज्झायाणं, ति-रयण-गुण-पालणरयाणं सव्वसाहूणं, णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-संपत्ति होउ मज्झं।

Swaroop Sambhodhan Stotram स्वरूप संबोधन स्तोत्रम् ★ मुक्ताऽमुक्तैकरूपो यः कर्मभिः संविदादिना । अक्षयं परमात्मानं, ज्ञानमूर्तिं नमामि तम् ॥१ ॥ सोऽस्त्यात्मा सोपयोगोऽयं क्रमाद्धेतुफलावहः । यो ग्राह्येोऽग्राह्यानाद्यन्तः स्थित्युत्पत्तिव्ययात्मकः ॥२ ॥ प्रमेयत्वादिभिर्धर्मैरचिदात्मा चिदात्मकः । ज्ञानदर्शनतस्तस्माच्चे तनाचे तनात्मकः ॥ ३ ॥ ज्ञानाद्भिन्नो न चाभिन्नो, भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं, सोऽयमात्मेति कीर्तितः ॥४ ॥ स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि नैव सः । ततः सर्वगतश्चायं, विश्वव्यापी न सर्वथा ॥५ ॥ नानाज्ञानस्वभावत्वादेकोऽनेकोपि नैव सः । चेतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥६॥ स वक्तव्य: स्वरूपाद्यैर्निर्वाच्यः परभावतः । तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ॥७ ॥ सस्याद्विधिनिषेधात्मा, स्वधर्मपरधर्मयोः । समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥८ ॥ इत्याद्यनेकधर्मत्वं, बंधमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥९ ॥ कर्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥१० ॥ आत्मस्वरूप की प्राप्ति का उपाय सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये । तत्त्वे याथात्म्यसौस्थित्यमात्मनो दर्शनं मतं ॥ ११ ॥ यथावद्वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थव्यवसायात्मकथञ्चित्प्रमितेः पृथक् ॥ १२ ॥ दर्शनज्ञानपर्यायेषूत्तरोत्तरभाविषु । स्थिरमालम्बनं यद्वा माध्यस्थ्यं सुखदुःखयोः ॥१३॥ ज्ञाता दृष्टाऽहमेकोऽहं सुखे दुःखे न चापरः । इतीदं भावनादाय, चारित्रमथवा परम् ॥ १४ ॥ तदेतन्मूलहेतोः स्यात्कारणं सहकारकम् । यद्बाह्यं देशकालादि तपश्च बहिरंगकम् ॥१५ ॥ इतीदं सर्वमालोच्य, सौस्थ्ये दौस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं, रागद्वेषविवर्जितम् ॥१६ ॥ कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते। नीलीरक्तेऽम्बरे रागो, दुराधेयो हि काँकुमः ॥ १७ ॥ ततस्त्वं दोषनिर्मुक्त्यै निर्मोहो भव सर्वतः । उदासीनत्वमाश्रित्य तत्त्वचिंतापरी भव ॥ १८ ॥ हेयोपादेयतत्त्वस्य, स्थितिं विज्ञाय हेयतः । निरालम्बो भवान्यस्मादुपेये सावलम्बनः ॥१९॥ स्व- परं चेति वस्तुत्त्वं, वस्तुरूपेण भावय । उपेक्षाभावनोत्कर्षपर्यन्ते, शिवमाप्नुहि ॥ २० ॥ मोक्षेऽपि यस्य नाकांक्षा. स मोक्षमधिगच्छति । इत्युक्तत्वाद्धितान्वेषि, कांक्षां न क्वापि योजयेत् ॥ २१ ॥ साऽपि च स्वात्मनिष्ठत्वात्सुलभा यदि चिन्त्यते । आत्माधीने सुखे तात, यत्नं किं न करिष्यसि ॥२२ ॥ स्वं परं विद्धि तत्रापि, व्यामोहं छिन्धि किन्त्विमम् । अनाकुलस्वसंवेद्ये, स्वरूपे तिष्ठ केवले ॥२३॥ स्वः स्वं स्वेन स्थितं स्वस्मै स्वस्मात्स्वस्याविनश्वरम् । स्वस्मिन् ध्यात्वा लभेत्स्वोत्थमानंदममृतं पदम् ॥२४॥ इति स्वतत्त्वं परिभाव्य वाड्मयम्, य एतदाख्याति शृणोति चादरात् । करोति तस्मै परमार्थसम्पदम्, स्वरूपसंबोधनपंचविंशतिः ॥२५ ॥

Ganesh Suktam गणेश सूक्तम् ★ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । महाहस्ती दक्षिणेन ॥ १ ॥ विद्मा हि त्वा तुविकूर्मिन्तुविदेष्णं तुवीमघम्। तुविमात्रमवोभिः ॥ २ ॥ न हि त्वा शूर देवा न मर्तासो दित्स॑न्तम् । भीमं न गां वारयन्ते ॥ ३ ॥ एतोन्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । न राधसा मर्धिषन्नः ॥ ४ ॥ प्र स्तोषदुपं गासिषच्छ्रवत्सामं गीयमानम् । अभिराधसाजुगुरत् ॥ ५ ॥ आ नो भर दक्षिणेनाभि सुव्येन प्र मृश । इन्द्र मानो वोर्निर्भाक् ॥ ६ ॥ उपक्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशुष्टरस्य वेदः ॥ ७ ॥

Gan Nayak Ashtakam गणनायक अष्टकम् ★ एकदन्तं महाकायं तप्तकांचनसन्निभम् । लंबोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुविलसन्मौलिं वन्देऽहं गणनायकम् ॥ २ ॥ अम्बिकाहृदयानन्दं मातृभिः परिपालितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३ ॥ चित्ररत्नविचित्रांगं चित्रमालाविभूषितम् । चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशांकुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥ मूषिकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६ ॥ यक्षकिन्नरगन्धर्व सिद्धविद्याधरैस्सदा । स्तूयमानं महात्मानं वन्देऽहं गणनायकम् ॥ ७ ॥ सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥ गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः । विमुक्तस्सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ९ ॥ इति श्री गणनायकाष्टकं सम्पूर्णम् । ★

Rudra Suktam रुद्र सूक्तम् ★ ॐ नमस्ते रुद्र मन्यवऽ उतोतऽ इषवे नमः । बाहुभ्याम् उत ते नमः ॥1 ॥ या ते रुद्र शिवा तनूर-घोरा ऽपाप-काशिनी । तया नस्तन्वा शन्तमया गिरिशंताभि चाकशीहि ॥2॥ यामिषं गिरिशंत हस्ते बिभर्म्यस्तवे । शिवां गिरित्र तां कुरु मा हिन्सीः पुरुषं जगत् ॥3॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज् जगद-यक्ष्मम् सुमनाऽ असत् ॥4॥ अध्य वोचद-धिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वान जम्भयन्त् सर्वांश्च यातु-धान्यो ऽधराचीः परा सुव ॥5॥ असौ यस्ताम्रोऽ अरुणऽ उत बभ्रुः सुमंगलः । ये चैनम् रुद्राऽ अभितो दिक्षु श्रिताः ऽवैषाम् हेड ऽईमहे ॥6॥ असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपाऽ अदृश्रन् दृश्रन्नु- दहारयः स दृष्टो मृडयाति नः ॥7॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो येऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरम् नमः ॥8॥ प्रमुंच धन्वनः त्वम् उभयोर आरत्न्योर ज्याम् । याश्च ते हस्तऽ इषवः परा ता भगवो वप ॥9॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवान्ऽ उत । अनेशन्नस्य याऽ इषवऽ आभुरस्य निषंगधिः ॥10॥ या ते हेतिर मीढुष्टम हस्ते बभूव ते धनुः । तया अस्मान् विश्वतः त्वम् अयक्ष्मया परि भुज ॥11॥ परि ते धन्वनो हेतिर अस्मान् वृणक्तु विश्वतः । अथो यऽ इषुधिः तवारेऽ अस्मन् नि-धेहि तम् ॥12॥ अवतत्य धनुष्ट्वम् सहस्राक्ष शतेषुधे । निशीर्य्य शल्यानां मुखा शिवो नः सुमना भव ॥13॥ नमस्तऽ आयुधाय अनातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥14॥ मा नो महान्तम् उत मा नोऽ अर्भकं मा नऽ उक्षन्तम् उत मा नऽ उक्षितम्। मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रूद्र रीरिषः ॥15॥ मा नस्तोके तनये मा नऽ आयुषि मा नो गोषु मा नोऽ अश्वेषु रीरिषः। मा नो वीरान् रूद्र भामिनो वधिर हविष्मन्तः त्वा हवामहे ॥16॥

Parvati Panchak Stotram पार्वती पंचक स्त्रोत्रम् ★ वह लड़के या लड़कियां विवाह का योग नहीं बनता है, और वह अनेक विफल उपाय करा लेते हैं तो पार्वती पंचक स्त्रोत्र का भोलेनाथ के मंदिर में जाकर हर रोज उसका पाठ करें जिससे उसका विवाह का योग बहुत ही जल्द बनता है। इस पाठ को आप ब्राह्मण के द्वारा भी करवा सकते हैं या फिर खुद महादेव के मंदिर में जाकर कर सकते हैं. अगर आप खुद करते हैं तो उसका ज्यादा फायदा होगा। ★ धराधरेन्द्र नन्दिनी शशंक मालि संगिनी, सुरेश शक्ति वर्धिनी नितान्तकान्त कामिनी। निशाचरेन्द्र मर्दिनी त्रिशूल शूल धारिणी, मनोव्यथा विदारिणी शिव तनोतु पार्वती । भुजंग तल्प शामिनी महोग्रकान्त भागिनी, प्रकाश पुंज दायिनी विचित्र चित्र कारिणी। प्रचण्ड शत्रुधर्षिणी दया प्रवाह वर्षिणी, सदा सुभग्य दायिनी शिव तनोतु पार्वती। । प्रकृष्ट सृष्टि कारिका प्रचण्ड नृत्य नर्तिका , पिनाक पाणिधारिका गिरिश ऋग मालिका। समस्त भक्त पालिका पीयूष पूर्ण वर्षिका, कुभाग्य रेखमर्जिका शिव तनोतु पार्वती । तपश्चरी कुमारिका जगत्परा प्रहेलिका, विशुद्ध भाव साधिका सुधा सरित्प्रवाहिका। प्रयत्न पक्ष पौसिका सदार्धि भाव तोषिका, शनि ग्रहादि तर्जिका शिव तनोतु पार्वती । शुभंकरी शिवंकरी विभाकरी निशाचरी, नभश्चरी धराचरी समस्त सृष्टि संचरी । तमोहरी मनोहरी मृगांक मालि सुन्दरी, सदोगताप संचरी,शिवं तनोतु पार्वती।। पार्वती पंचक नित्यमधीयते यत कुमारिका, दृष्कृतं निखिलं हत्वा वरं प्रप्नोति सुन्दरम।।

Rahu Shanti Jain Mantra Jaap राहु शांति जैन मंत्र जाप ★ ॐ नमो अर्हते भगवते श्रीमते नेमि तीर्थंकराय सर्वाण्हयक्ष कुष्मांडीयक्षी सहिताय ॐ आं क्रीं ह्रीं ह्रः राहुमहाग्रह मम दुष्टग्रह, रोग कष्ट निवारणं सर्व शान्तिं च कुरू कुरू हूं फट् । ★

ॐ नमो भगवत्यै कामकलाकालिकायै ओं ओं ओं ओं ओं ह्रीं ह्रीं हूं ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं श्रीं श्रीं क्लीं ह्रीं क्लीं क्लीं क्लीं क्लीं हूं हूं हूं स्त्रीं स्त्रीं स्त्रीं स्त्रीं स्त्रीं हूं ह्रीं ह्रीं ह्रीं ह्रीं संहारभैरवसुरतरसलोलुपायै कों क्रों कों क्रों कों ह्रीं ह्रीं ह्रीं ह्रौं ह्रौं फ्रें फ़्रें फ्रें फ्रें फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें क्षं क्षं क्षं क्षं क्षं स्फों स्फों स्फों स्फों स्फों स्हौं स्हौं स्हौं स्हौंः स्हौंः ग्लूं ग्लूं ग्लूं ग्लूं ग्लूं क्षौं क्ष क्ष क्ष क्ष फ्रों फ्रों फ्रों फ्रों फ्रों कीं कीं क्रीं क्रीं क्रीं क्रीं क्रौं कौं कौं कौं जूं जूं जूं जूं जूं क्लूं क्यूं क्लूं क्लूं क्यूं प्रकटविकटदशनविकरालवदनायै क्लौं क्लौं क्लौं क्लौं क्लौं ब्लौं ब्लौं ब्लौं ब्लौं ब्लौं क्षं क्षं क्षं क्षं क्षं द्रीं द्रीं द्रीं द्रीं ह्रीं प्रीं प्रीं प्रीं प्रीं प्रीं हभ्रीं हीं हीं हभ्रीं ह्रीं स्हें स्हें स्हें स्हें स्हें घ्रीं ह्रीं ह्रीं ह्रीं ह्रीं सृष्टिस्थितिसंहारकारिण्यै मदनातुरायै झैं झैं कैं कैं कैं श्रीं श्रीं श्रीं श्रीं श्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ठौं ठौं ठौं ठौं ठौं ब्लूं ब्लूं ब्लूं ब्लूं ब्लूं भ्रं भ्रू भ्रू श्रूं भ्रू फहलक्षां फहलक्षां फहलक्षां फहलक्षां फहलक्षां भयङ्करदंष्ट्रायुगलमुखररसनायै घ्रीं ह्रीं ह्रीं ह्रीं घ्रीं खें खें खें खें खें कूं कूं कूं कूं कूं श्रीं श्रीं श्रीं श्रीं श्रीं चफलकों चफलकों चफलकों चफलकों चफलकों कूं कूं कूं कूंकूं गं गं गं गं गं हूः हूः हूः हूः हूः सकचनरमुण्डकृत कुलायै ल्यूं ल्यूं ल्यूं ल्यूं ल्यूं जूं जूं गूं गूं जूं हैं हैं हैं हैं क्लौं क्लौं क्लौं क्लौं क्लौं बूं ब्रू ब्रू ब्रू ब्रू स्कीः स्कीः स्कीः स्कीः स्कीः ब्जं ब्जं ब्जं ब्जं ब्जं रहीं रहीं रहीं रहीं रहीं महाकल्पान्तब्रह्माण्डचर्वणकरायै हैं हैं हैं हैं अं अं अं अं आं इं ई इं इं इं उं उं उं उं उं स्हें स्हें स्हें स्हें स्हें रां रां रां रां रां गं गं गं गं गं गां गां गां गां गां युगभेदभिन्नगुह्यकाल्येकमूर्तिधरायै फ्रें फ्रें फ्रें फें फ्रें खफें खफें खर्फे खर्फे खफें हसर्फी हसफी हसर्फी हसफ्रीं हसीं हसख हसखफें हसखफें हसखफें हसखझें क्षरहीं क्षरहीं

ॐ सुदर्शने नम: ॐ आं ह्रीं क्रौँ नमो भगवते प्रलय काल महा ज्वाला घोरवीर सुदर्शन नृसिंहाय ॐ महा चक्र राजाय महा बले सहस्रकोटिसूर्यप्रकाशाय सहस्रशीर्षाय सहस्रअक्षाय सहस्रपादाय संकर्षणात्मने सहस्रदिव्याश्र सहस्र हस्ताय सर्वतोमुख ज्वलन ज्वाला माला वृताया विस्फुलिंग स्फोट परिस्फोटित ब्रह्माण्ड भानडाय महा पराक्रमाय महोग्र विग्रहाय महावीराय महाविष्णुरुपिणे व्यतीत कालान्तकाय महाभद्र रोद्रावताराय मृत्युस्वरूपाय किरीट-हार-केयूर-ग्रेवेयक-कटक अन्गुलयी-कटिसूत्र मजीरादी कनकमणि खचित दिव्य भूषणाय महा भीषणाय महा भिक्षया व्याहत तेजो रूप निधेय रक्त चंडान्तक मण्डितम दोरु कुंडा दूर निरिक्षणाय प्रत्यक्षाय ब्रह्मचक्र विष्णुचक्र कालचक्र भूमिचक्र तेजोरूपाय आश्रितरक्षाय/ ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम शत्रून नाशय नाशय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ज्वल ज्वल प्रज्वल प्रज्वल चंड चंड प्रचंड प्रचंड स्फुर प्रस्फुर घोर घोर घोरतर घोरतर चट चट प्रचटं प्रचटं प्रस्फुट दह कहर भग भिन्धि हंधी खट्ट प्रचट फट जहि जहि पय सस प्रलय वा पुरुषाय रं रं नेत्राग्नी रूपाय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही आगच्छ आगच्छ भूतग्रह- प्रेतग्रह- पिशाचग्रह-दानावग्रह-कृत्रिमग्रह- प्रयोगग्रह-आवेशग्रह- आगतग्रह-अनागतग्रह-ब्रह्म्ग्रह-रुद्रग्रह-पतालग्रह- निराकारग्रह -आचार-अनाचार ग्रह- नन्जाती ग्रह- भूचर ग्रह- खेचर ग्रह- वृक्ष ग्रह- पिक्षीचर ग्रह- गिरीचर ग्रह- श्मशानचर ग्रह -जलचर ग्रह -कूपचर ग्रह- देगारचल ग्रह- शुन्यगारचर ग्रह- स्वप्न ग्रह- दिवामनो ग्रह- बालग्रह -मूकग्रह- मुख ग्रह -बधिर ग्रह- स्त्री ग्रह- पुरुष ग्रह- यक्ष ग्रह- राक्षस ग्रह- प्रेत ग्रह –किन्नर ग्रह- साध्यचर ग्रह – सिद्धचर ग्रह -कामिनी ग्रह- मोहनी ग्रह-पद्मिनी ग्रह- यक्षिणी ग्रह- पक्षिणी ग्रह संध्या ग्रह-उच्चाटय उच्चाटय भस्मी कुरु कुरु स्वाहा ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ क्षरां क्षरीं क्षरूं क्षरें क्षरों क्षर : भ्रां भ्रीं भ्रूं भ्रै भ्रौं भ्र: ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्र: घ्रां घ्रीं घ्रूं घ्रै घ्रौं घ्र: श्रां श्रीं श्रुं श्रें श्रों श्र: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही सालवं संहारय शरभं क्रन्दया विद्रावय विद्रावय भैरव भीषय भीषय प्रत्यांगिरी मर्दय मर्दय चिदंबरम बंधय बंधय विदम्बरम ग्रासय ग्रासय शांर्म्भ्वा निबंतय कालीं दह दह महिषासुरी छेदय छेदय दुष्ट शक्ति निर्मूलय निर्मूलय रूं रूं हूँ हूँ मुरु मुरु परमन्त्र – परयन्त्र – परतंत्र कटुपरं वादपर जपपर होमपर सहस्र दीप कोटि पुजां भेदय भेदय मारय मारय खंडय खंडय परकृतकं विषं निर्विष कुरु कुरु अग्नि मुख प्रकांड नानाविध कृतं मुख वनमुखं ग्राहान चुर्णय चुर्णय मारी विदारय कुष्मांड वैनायक मारीचगणान भेदय भेदय मन्त्रं परअस्माकं विमोचय विमोचय अक्षिशूल कुक्षीशूल गुल्मशूल पार्श्वशूल सर्वाबाधा निवारय निवारय पांडूरोगं संहारय संहारय विषम ज्वर त्रासय त्रासय एकाहिकं द्वाहिकं त्र्याहिकं चातुर्थिकं पंचाहिकं षष्टज्वर सप्तमज्वर अष्टमज्वर नवमज्वर प्रेतज्वर पिशाचज्वर दानवज्वर महाकालज्वरं दुर्गाज्वरं ब्रह्माविष्णुज्वरं माहेश्वरज्वरं चतु:षष्टि योगिनीज्वरं गन्धर्वज्वरं बेतालज्वरं एतान ज्वरान्न नाशय नाशय दोषं मंथय मंथय दुरित हर हर अन्नत वासुकी तक्षक कालौय पद्म कुलिक कर्कोटक शंख पलाद्य अष्ट नाग कुलानां विषं हन हन खं खं घं घं पाशुपतं नाशय नाशय शिखंडी खंडय खंडय प्रमुख दुष्ट तंत्र स्फोटय स्फोटय भ्रामय भ्रामय महानारायणास्त्राय पंचाशधरणरूपाय लल लल शरणागत रक्षणाय हूँ हूँ गं वं गं वं शं शं अमृतमूर्तये तुभ्यं नम: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प

Angarak (Mangal) Kavacham अङ्गारक (मङ्गल) कवचम् ★ अस्य श्री अङ्गारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चन्दः, अङ्गारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥ ★ ध्यानम् रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ ★ अथ अङ्गारक कवचम् अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः । श्रव रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः भुज में रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ 2 ॥ वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥ जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥ ★ फलश्रुतिः य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥ रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥ ॥ इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ॥

Dakshin Kali Dhyan दक्षिण काली ध्यान ★ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां दक्षिणां दिव्यां मुण्डमाला विभूषिताम् ॥ सद्यः छिन्नशिरः खड्गवामाधोर्ध्व कराम्बुजाम् । अभयं वरदञ्चैव दक्षिणोर्ध्वाध: पाणिकाम् ॥ महामेघ प्रभां श्यामां तथा चैव दिगम्बरीम् । कण्ठावसक्तमुण्डाली गलद्रुधिर चर्चिताम् ॥ कर्णावतंसतानीत शवयुग्म भयानकां । घोरदंष्ट्रां करालास्यां पीनोन्नत पयोधराम् ॥ शवानां कर संघातैः कृतकाञ्ची हसन्मुखीम् । सृक्कद्वयगलद् रक्तधारां विस्फुरिताननाम् ॥ घोररावां महारौद्रीं श्मशानालय वासिनीम् । बालर्क मण्डलाकार लोचन त्रितयान्विताम् ॥ दन्तुरां दक्षिण व्यापि मुक्तालम्बिकचोच्चयाम् । शवरूप महादेव ह्रदयोपरि संस्थिताम् ॥ शिवाभिर्घोर रावाभिश्चतुर्दिक्षु समन्विताम् । महाकालेन च समं विपरीत रतातुराम् ॥ सुखप्रसन्न-वदनां स्मेरानन सरोरुहाम । एवं सञ्चिन्तयेत् कालीं सर्वकामार्थ सिद्धिदाम् ॥

Panch Mahaguru Bhakti पञ्च महागुरु भक्ति ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं प्रणाम करता हूँ। अष्टगुणैः समुपेतान् प्रणष्ट-दुष्टाष्टकर्म-रिपुसमितीन् । सिद्धान् सतत-मनन्तान् नमस्करोमीष्ट-तुष्टि संसिद्ध्यै ॥२॥ आठ गुणों से युक्त दुष्ट- अष्ट कर्म-शत्रु के समूह को नष्ट किया है जिन्होंने ऐसे अनन्त सिद्धों को सन्तोष की सिद्धि के लिए सदैव नमस्कार करता हूँ। साचार- श्रुत- जलधीन् प्रतीर्य शुद्धोरुचरण-निरतानाम् । आचार्याणां पदयुग कमलानि दधे शिरसि मेऽहम् ॥३॥ आचार सहित श्रुत सागर को तैरकर शुद्ध, महान चारित्र में निरत चरण युगलकमल को अपने शिर पर मैं धारण करता हूँ। मिथ्यावादि मद्रोग्र ध्वान्त-प्रध्वंसि वचन - संदर्भान् । उपदेशकान् प्रपद्ये मम दुरितारि - प्रणाशाय ॥४॥ मिथ्यावादियों के गर्वरूपी उग्र अन्धकार के नाशक वचनों के सन्दर्भ वाले उपदेशकों को मैं अपने पाप शत्रु का नाश करने के लिए प्राप्त होता हूँ। सम्यग्दर्शन दीप प्रकाशका मेय-बोध-सम्भूताः । भूरि-चरित्र पताकास् ते साधु-गणास्तु मां पान्तु ॥५ ॥ जो सम्यग्दर्शनरूपी दीपक को प्रकाशित करते हैं, जो व्यापक ज्ञान से सम्पन्न हैं जो उत्कृष्ट चारित्र की ध्वजा हैं, वह साधुगण ही मेरी रक्षा करें। जिनसिद्ध-सूरिदेशक साधु-वरानमल-गुण- गणोपेतान् । पञ्चनमस्कारपदैस् त्रिसन्ध्यमभिनौमि मोक्षलाभाय ॥६॥ निर्मल गुण-गण से युक्त जिन, सिद्ध, आचार्य, उपाध्याय और उत्कृष्ट साधुओं को मोक्ष की प्राप्ति के लिए पञ्च नमस्कार पदों के द्वारा तीनों संध्याओं में नमस्कार करता हूँ । एष पञ्चनमस्कारः सर्व पापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं मङ्गलं मतम् ॥७॥ यह पञ्च नमस्कार सभी पापों का नाशक और सभी मंगलों में पहला मंगल माना है। अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधवः । कुर्वन्तु मङ्गलाः सर्वे निर्वाण- परमश्रियम् ॥८ ॥ अर्हन्त, सिद्ध, आचार्य, उपाध्याय और समस्त साधु मंगल रूप हैं यह सभी निर्वाणरूपी उत्कृष्ट लक्ष्मी को करें। सर्वांन्- जिनेन्द्र-चन्द्रान् सिद्धानाचार्य पाठकान् साधून् । रत्नत्रयं च वन्दे रत्नत्रय - सिद्धये भक्त्या ॥९॥ सभी जिनेन्द्र चन्द्रों को सिद्ध को आचार्य, उपाध्यायों को और साधुओं को तथा रत्नत्रय को रत्नत्रय की सिद्धि के लिए भक्ति से नमस्कार करता हूँ । पान्तु श्रीपाद पद्मानि पञ्चानां परमेष्ठिनाम्। लालितानि सुराधीश चूड़ामणि मरीचिभिः ॥१०॥ इन्द्र के चूड़ामणि की किरणों से सेवित पाँचों परमेष्ठियों के श्री चरण कमल रक्षा करें। प्रातिहार्यैर्जिनान् सिद्धान् गुणैः सिद्धान् गुणैः सूरीन् स्वमातृभिः । पाठकान् विनयैः साधून् योगाङ्गैरष्टभिः स्तुवे ॥११॥ जिनेन्द्र भगवान् की प्रतिहार्यों से सिद्धों की गुणों से आचार्यों को अपनी मातृकाओं से उपाध्यायों को विनय से साधुओं को आठ योगों से स्तुति करता हूँ। अञ्चलिका अर्थ- हे भगवन्! मैंने पंच महागुरु भक्ति का कायोत्सर्ग किया है, उसकी मैं आलोचना करने की इच्छा करता हूँ। अष्ट-महा प्रातिहार्यों से युक्त अरहन्त, अष्ट गुणों से सम्पन्न तथा ऊर्ध्व लोक के मस्तक पर प्रतिष्ठित सिद्ध, अष्ट प्रवचन मातृकाओं से युक्त आचार्य, आचारांग आदि श्रुत ज्ञान का उपदेश देने वाले उपाध्याय और रत्नत्रय गुणों के पालन में रत सभी साधू परमेष्ठी की मैं सदा अर्चना करता हूँ, पूजा करता हूँ, वंदना करता हूँ, नमस्कार करता हूँ, मेरे दुःखों का क्षय हो, कर्मों का क्षय हो, बोधिलाभ हो, सुगति में गमन हो, समाधि मरण हो और मुझे जिनेन्द्र भगवान् के गुणों की प्राप्ति होवे।

Yuktyanushasana by Acharya Samantabhadra आचार्य समंतभद्र विरचित युक्त्यनुशासन