Chanting And Recitation Of Jain & Hindu Mantras And Prayers
Kalika Stotram कालिका स्तोत्रम् दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत् सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः । भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ १॥ लसन्नासामुक्ता निजचरणभक्तावनविधौ समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा । अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ २॥ रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर- स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः । विराजत्कोटीरा विमलतरहीरा भरणभृत् जगद्धुर्या काली मम०॥ ३॥ वसाना कौशेयं कमलनयना चन्द्रवदना दधाना कारुण्यं विपुलजघना कुन्दरदना । पुनाना पापाद्या सपदि विधुनाना भवभयं जगद्धुर्या काली मम०॥ ४॥ रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात् समागाद्या रागाज्झटिति यमुनागाधिपमसौ । नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता जगद्धुर्या काली मम मनसि-॥ ५॥ विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका । नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥ ६॥ यमुनाचलद्दमुना दुःखदवस्य देहिनाम् । अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥ ७॥ अनुभूति सतीप्राणपरित्राणपरायणा । देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥ ८॥ य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः । देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥ ९॥ इति कालिकास्तोत्रम् सम्पूर्णम् ॥
मृतसञ्जीवन स्तोत्रम् एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥ सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥ २॥ समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥३॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥ दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥ अष्टदसभुजोपेतो दण्डाभयकरो विभुः । यमरूपि महादेवो दक्षिणस्यां सदावतु ॥६॥ खड्गाभयकरो धीरो रक्षोगणनिषेवितः । रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥७॥ गदाभयकरः प्राणनायकः सर्वदागतिः । वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सर्वविद्यानमधिनायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु । शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥ भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्षिणामूर्ति :, दर्न्तान्मे गिरिशोऽवतु ॥१४॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥ कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ मे जगद्दर्ता जङ्घे मे जगदम्बिका । पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥ गिरिशः पातु मे भार्यां भवः पातु सुतान्मम । मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः । एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् । सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः । सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ । आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥२३॥ कालमृयुमपि प्राप्तमसौ जयति सर्वदा । अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥ युद्दारम्भे पठित्वेदमष्टाविशतिवारकं । युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै । विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥२६॥ प्रातरूत्थाय सततं यः पठेत्कवचं शुभं । अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥ सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः । अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥ विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् । तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥२९॥ मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥३०॥
Shri Jagannath Chalisa श्री जगन्नाथ चालीसा
Ashwath Stotram अश्वत्थ स्तोत्रम् ★ नारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २॥ अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३॥ स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४॥ पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः । तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५॥ त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते । त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६॥ चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे । बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७॥ अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले । अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८॥ क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते । सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९॥ एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः । नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १०॥ अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः । हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२॥ सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् । परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३॥ अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् । शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४॥ अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने । नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे । अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६॥ यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते । यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७॥ अश्वत्थ सुमहाभाग सुभग प्रियदर्शन । इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८॥ आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् । देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९॥ ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः । अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥ २०॥ ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः । आवृत्य लक्षसङ्ख्यं तत् स्तोत्रमेतत् सुखी भवेत् ॥ २१॥ ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः । पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ॥ २२॥ एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् । अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३॥ मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् । विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४॥ पदे पदान्तरं गत्वा करचेष्टाविवर्जितः । वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५॥ अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः । धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ॥ २६॥ अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः । एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७॥ अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् । अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ॥ २८॥ एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते । यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९॥ छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः । अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३०॥ ॥ इति अश्वत्थ स्तोत्रं सम्पूर्णम् ॥
Sri Kumari Stotram श्री कुमारी स्तोत्रम् ★ जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि । पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥ त्रिपुरां त्रिगुणाधारां त्रिवर्गज्ञानरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥२॥ कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम् ॥३॥ अणिमादिगुणाधरामकाराद्यक्षरात्मिकाम् । अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ॥४॥ कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् । कामदां करुणोदारां कालिकां पूजयाम्यहम् ॥५॥ चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् । पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥६॥ सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् । सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ॥७॥ दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् । पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥८ ॥ सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्। सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् ॥९॥ इति श्री कुमारी स्तोत्रम् ।
Chandra Stotra चन्द्र स्तोत्र ★ श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: । चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्।।2।। क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: । हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।। सुधायया यत्किरणा: पोषयन्त्योषधीवनम्। सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम्।।4।। राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् । ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ।।5।। इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम् ।।
Sri Chaitanya Shiksha Ashtakam श्री चैतन्य शिक्षा अष्टकम् ★ चेतोदर्पणमार्जनं भव-महादावाग्नि-निर्वापणम् श्रेयः-कैरवचन्द्रिकावितरणं विद्यावधू-जीवनम् । आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम् सर्वात्मस्नपनं परं विजयते श्रीकृष्ण-संकीर्तनम् ॥१॥ नाम्नामकारि बहुधा निज सर्व शक्तिस तत्रार्पिता नियमितः स्मरणे न कालः। एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृश-मिहाजनि नानुरागः॥२॥ तृणादपि सुनीचेन तरोरपि सहिष्णुना। अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥ न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये। मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥ अयि नन्दतनुज किंकरं पतितं मां विषमे भवाम्बुधौ। कृपया तव पादपंकज-स्थितधूलिसदृशं विचिन्तय॥५॥ नयनं गलदश्रुधारया वदनं गदगदरुद्धया गिरा। पुलकैर्निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति॥६॥ युगायितं निमेषेण चक्षुषा प्रावृषायितम्। शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥ आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्-मर्महतां करोतु वा। यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्-तु स एव नापरः॥८॥ शिक्षाष्टकम् (हिंदी भावानुवाद) चित्त रूपी दर्पण को स्वच्छ करने वाले, भव रूपी महान अग्नि को शांत करने वाले, चन्द्र किरणों के समान श्रेष्ठ, विद्या रूपी वधु के जीवन स्वरुप, आनंद सागर में वृद्धि करने वाले, प्रत्येक शब्द में पूर्ण अमृत के समान सरस, सभी को पवित्र करने वाले श्रीकृष्ण कीर्तन की उच्चतम विजय हो॥१॥ हे प्रभु, आपने अपने अनेक नामों में अपनी शक्ति भर दी है, जिनका किसी समय भी स्मरण किया जा सकता है। हे भगवन्, आपकी इतनी कृपा है परन्तु मेरा इतना दुर्भाग्य है कि मुझे उन नामों से प्रेम ही नहीं है॥२॥ स्वयं को तृण से भी छोटा समझते हुए, वृक्ष जैसे सहिष्णु रहते हुए, कोई अभिमान न करते हुए और दूसरों का सम्मान करते हुए सदा श्रीहरि का भजन करना चाहिए॥३॥ हे जगत के ईश्वर! मैं धन, अनुयायी, स्त्रियों या कविता की इच्छा न रखूँ। हे प्रभु, मुझे जन्म जन्मान्तर में आपसे ही अकारण प्रेम हो॥४॥ हे नन्द के पुत्र, इस दुर्गम भव-सागर में पड़े हुए मुझ सेवक को अपने चरण कमलों में स्थित धूलि कण के समान समझ कर कृपा कीजिये॥५॥ हे प्रभु, कब आपका नाम लेने पर मेरी आँखों के आंसुओं से मेरा चेहरा भर जायेगा, कब मेरी वाणी हर्ष से अवरुद्ध हो जाएगी, कब मेरे शरीर के रोम खड़े हो जायेंगे ॥६॥ श्रीकृष्ण के विरह में मेरे लिए एक क्षण एक युग के समान है, आँखों में जैसे वर्षा ऋतु आई हुई है और यह विश्व एक शून्य के समान है॥७॥ उनके चरणों में प्रीति रखने वाले मुझ सेवक का वह आलिंगन करें या न करें, मुझे अपने दर्शन दें या न दें, मुझे अपना मानें या न मानें, वह चंचल, नटखट श्रीकृष्ण ही मेरे प्राणों के स्वामी हैं, कोई दूसरा नहीं॥८॥
‘Om Sohum‘ Mantrajaap ‘ॐ सोsहम्‘ मंत्रजाप 108 times
Jaya Panchakam जय पंचकम् ஜெய் பஞ்சகம் ★ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥१॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः। हनुमान् शत्रु सैन्यानां निहन्ता मारुतात्मजः ॥२॥ न रावण सहस्रं मे युद्धे प्रति बलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३॥ अर्दयित्वा पुरीं लङ्कां अभिवाद्य च समृद्धार्थो गमिष्यामि मिषतां सर्व रक्षसाम् ॥४॥ तस्य सन्नाद शब्देन तेऽभवन् भय शङ्किताः ददृशुश्च हनूमन्तं संध्या - मेघं इवोन्नतम् ॥५॥
Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥ राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् । राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥ षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥ श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् । दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥ लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम् श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥ धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥ कर्पूरागरुकुङ्कुमाङ्ङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥ गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् । गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥
Gayatri Bhujang Stotra गायत्री भुजंग स्तोत्र ★ उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि वन्द्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥ सदा हंसयानां स्फुरद्रत्नवस्त्रां वराभीति हस्तां खगाम्नायरूपाम् । स्फुरत्स्वाधिकामक्षमालां च कुम्भं दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥ प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं किरीटोल्लसद्रत्नराजप्रभाताम् । विशालोरु भासां कुचाश्लेषहारां भजे बालिकां ब्रह्मविद्यां विनोदाम् ॥ ३ ॥ स्फुरच्चन्द्र कान्तां शरच्चन्द्रवक्त्रां महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् । त्रिशूलाक्ष हस्तां त्रिनेत्रस्य पत्नीं वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ४ ॥ षडाधाररूपां षडाधारगम्यां षडध्वातिशुद्धां यजुर्वेदरूपाम् । हिमाद्रेस्सुतां कुन्द दन्तावभासां महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ ५ ॥ सुषुम्नान्तरस्थां सुधासेव्यमानां उकारान्तरस्थां द्वितीयस्वरूपाम् । सहस्रान्तरस्थां प्रभासत्रिनेत्रां सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ ६ ॥ सदासामगानां प्रियां श्यामलाङ्गीं अकारान्तरस्थां करोल्लासिचक्राम् । गदापद्महस्तां ध्वनत्पाञ्चजन्यां खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ७ ॥ प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां अहं लम्बमान स्तनप्रान्तहारम् । महानीलरत्न प्रभाकुण्डलाभ्यां स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ८ ॥ सदातत्त्वमस्यादि वाक्यैकगम्यां अहं मोक्षमार्गैक पाथेयरूपाम् । महासिद्धविद्याधरैस्सेव्यमानां भजेहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ ९ ॥ हृदम्भोजमध्ये परम्नायमीडे सुखासीन सद्राजहंसां मनोज्ञाम् । सदा हेमभासां त्रयीविद्यमध्यां भजाम स्तुवामो वदाम स्मरामः ॥ १० ॥ सदा तत्पदैस्तूयमानां सवित्रीं वरेण्यां महाभर्गरूपां त्रिनेत्राम् । सदा देवदेवादि देवस्यपत्नीं अहं धीमहीत्यादि पादैक जुष्टाम् ॥ ११ ॥ अनाथं दरिद्रं दुराचारयुक्तं शठं स्थूलबुद्धिं परं धर्महीनम् । त्रिसन्ध्यां जपध्यानहीनं महेशीं परं चिन्तयामि प्रसीद त्वमेव ॥ १२ ॥ इतीदं भुजङ्गं पठेद्यस्तु भक्त्या समाधाय चित्ते सदा श्री भवानीम् । त्रिसन्ध्यस्वरूपां त्रिलोकैक वन्द्यां स मुक्तो भवेत्सर्वपापै रजस्रम् ॥ १३ ॥
Tripursundari Stotra त्रिपुरसुन्दरी स्तोत्र ★ कदंबवनचारिणीं मुनिकदम्बकादंविनीं, नितंबजितभूधरां सुरनितंबिनीसेविताम् | नवंबुरुहलोचनामभिनवांबुदश्यामलां, त्रिलोचनकुटुम्बिनीं त्रिपुरसुंदरीमाश्रये ॥|1| कदंबवनवासिनीं कनकवल्लकीधारिणीं, महार्हमणिहारिणीं मुखसमुल्लसद्वारुणींम् | दया विभव कारिणी विशद लोचनी चारिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये ॥|2| कदंबवनशालया कुचभरोल्लसन्मालया, कुचोपमितशैलया गुरुकृपालसद्वेलया | मदारुणकपोलया मधुरगीतवाचालया , कयापि घननीलया कवचिता वयं लीलया ॥|3| कदंबवनमध्यगां कनकमंडलोपस्थितां, षडंबरुहवासिनीं सततसिद्धसौदामिनीम् | विडंवितजपारुचिं विकचचंद्रचूडामणिं , त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥|4| कुचांचितविपंचिकां कुटिलकुंतलालंकृतां , कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् | मदारुणविलोचनां मनसिजारिसंमोहिनीं , मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥|5| स्मरेत्प्रथमपुष्प्णीं रुधिरबिन्दुनीलांबरां, गृहीतमधुपत्रिकां मधुविघूर्णनेत्रांचलाम् | घनस्तनभरोन्नतां गलितचूलिकां श्यामलां, त्रिलोचनकुटंबिनीं त्रिपुरसुंदरीमाश्रये ॥|6| सकुंकुमविलेपनामलकचुंबिकस्तूरिकां , समंदहसितेक्षणां सशरचापपाशांकुशाम् | असेष जनमोहिनी मरूण माल्य भुषाम्बरा, जपाकुशुम भाशुरां जपविधौ स्मराम्यम्बिकाम ॥|7| पुरम्दरपुरंध्रिकां चिकुरबंधसैरंध्रिकां , पितामहपतिव्रतां पटुपटीरचर्चारताम् | मुकुंदरमणीं मणिलसदलंक्रियाकारिणीं, भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥|8| इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं त्रिपुरसुन्दरीस्तोत्रं संपूर्णम् ।
Nirvaan Kaand निर्वाण काण्ड ★ (दोहा) वीतराग वन्दौं सदा, भाव सहित सिर नाय | कहूं काण्ड निर्वाण की, भाषा सुगम बनाये || (चौपाई) अष्टापद आदीश्वर स्वामि, वासुपूज्य चम्पापुरि नामि | नेमिनाथ स्वामी गिरनार, वन्दौं भाव भगति उर धार ||1|| चरम तीर्थकर चरम शरीर, पावापुरि स्वामि महावीर | शिखर समेद जिनेसुर बीस, भावसहित वन्दौं निश दीस ||2|| वरदत्तराय रु इन्द मुनिंद, सायरदत्त आदि गुणवृन्द | नगर तारवर मुनि उठकोडी, वन्दौं भाव सहित कर जोडी ||3|| श्रीगिरनार शिखर विख्यात, कोडी बहत्तर अरु सौ सात | सम्बु प्रद्युम्न कुमर द्वै भाय, अनिरुध आदि नमूं तसु पाय ||4|| रामचन्द्र के सुत द्वै वीर, लाडनरिंद आदि गुणधीर | पांच कोडी मुनि मुक्ति मंझार, पावागिरि वन्दौं निरधार ||5|| पांडव तीन द्रविड़ राजान, आठ कोडी मुनि मुक्ति पयान | श्रीशत्रुंजय के सीस, भावसहित वन्दौं निश दीस ||6|| जे बलभद्र मुक्ति में गये, आठ कोडी मुनि औरहू भये | श्रीगजपन्थ शिखर सुविशाल, तिनके चरण नमूं तिहूँ काल ||7|| राम हणु सुग्रीव सुडील, गव गवाख्य नील महानील | कोडी निन्याणव मुक्ति पयान, तुंगीगिरि वन्दौं धरि ध्यान ||8|| नंग अनंग कुमार सुजान, पांच कोडी अरु अर्ध प्रमान | मुक्ति गये सोनागिरि शीस, ते वन्दौं त्रिभुवन पति ईस ||9|| रावण के सुत आदिकुमार, मुक्ति गये रेवा तट सार | कोटि पंच और लाख पचास, ते वन्दौंधरि परम हुलास ||10|| रेवानदी सिद्धवर कूट, पश्चिम दिशा देह जहँ छूट | द्वे चक्री दश कामकुमार, उठकोडी वन्दौं भव पार ||11|| बडवानी बडनयर सुचंग, दक्षिण दिशि गिरि चूल उतंग | इन्द्रजीत अरु कुम्भ जो कर्ण, ते वन्दौं भव सागर तरण ||12|| सुवरणभद्र आदि मुनि चार, पावागिरि वर शिखर मंझार | चेलना नदी तीर के पास, मुक्ति गये नित वन्दौं नित तास ||13|| फलहोडी बडगाम अनूप, पश्चिम दिशा द्रोणगिरि रूप | गुरुदत्तादी मुनिसुर जहाँ, मुक्ति गये वन्दौं नित तहां ||14|| बाल महाबाल मुनि दोय, नागकुमार मिले त्रय होय | श्रीअष्टापद मुक्ति मंझार, ते वन्दौं नित सुरत सँभार ||15|| अचलापुर की दिश ईसान, तहां मेढगिरि नाम प्रधान | साढ़े तीन कोडी मुनिराय, तिनके चरण नमूं चित लाय ||16|| वंसस्थल वन के ढिग होय, पश्चिम दिशा कुंथुगिरी सोय | कुलभूषण दिशिभूषण नाम, तिनके चरणनि करूं प्रणाम ||17|| जसरथ राजा के सुत कहे, देश कलिंग पांच सौ लहे | कोटिशिला मुनि कोडी प्रमान, वन्दन करूं जोरि जग पान ||18|| समवशरण श्री पार्श्व जिनन्द, रेसिन्दीगिरि नयनानंद | वरदत्तादि पंच ऋषिराय, ते वन्दौं नित धरम जिहाज ||19|| तीन लोक ते तीरथ जहाँ, नित प्रति वन्दन कीजै तहां | मन-वच-काय सहित सिर नाय, वन्दन करहिं भविक गुण गाय ||20|| संवत सतरह सौ इकताल, आश्विन सुदि दशमी सुविशाल | भक्त वन्दन करहिं त्रिकाल, जय निर्वाणकांड गुणमाल ||21||
Jain Punyavardhak Stotra जैन पुण्यवर्धक स्तोत्र
Girnarji Neminath Puja गिरनार जी नेमिनाथ पूजा ★ 1. स्थापना 2. अष्टक 3. पंच कल्याणक 4. जयमाला
Vairagya Ashtakam वैराग्य अष्टकम् गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता, स्ववेश्मन्यारक्षा क्रियत इति मार्गोऽयमुचितः। नरानोद्वाद्गेहात् प्रतिदिनं समाकृष्यनयतः, कृतान्तात् किं शङ्का न हि भवति रजाग्रत जनाः ॥1॥ क्वचिद्विद्वगोष्ठी क्वचिदपि सुरामत्त कलहः, क्वचिद्वीणावादः क्वचिदऽपि च हा हेतिरुदितम्। क्वचिद्रम्यारामा क्वचिदऽपि जराजर्जरतनुर् । न ज्ञातं (जाने) संसारः किममृतमयः किं विषमयः ।।2।। वपुः कुब्जीभूतः गतिरपि तथा यष्टि शरणा, विशीर्णा दन्तालिः श्रवण विकलं श्रोत्रयुगलम्। शिरः शुक्लं चक्षुस्तिमिर पटलैरावृत महो, मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥३॥ अजानन्दाहात्म्यं पततिशलभो दीप दहने, समीनोऽप्यज्ञानाद्-वडिशयुत-मश्नाति पिशितम्। विजानन्तोऽप्येते वयमिह विपज्जाल जटिलान्, नमुंचया कामान्नहो गहनं मोह महिमा ।।4।। आदित्यस्यगता गतैरह रहः संक्षीयते जीवतं, व्यापारैर्बहु कार्यभार गुरुभिः कालो न विज्ञायते। दृष्ट्वा जन्म जरा विपत्ति मरणं, त्रासं च नोत्पद्यते, पीत्त्वा मोहमयीं प्रमाद मदिरामुन्मत्त भूतं जगत् ।।5।। निः स्वोवष्टि शतं शती दशशतं लक्षं सहस्राधिपो, लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वांछति। चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वांछति, ब्रह्मा शैव पदं शिवो व हरिपदं ह्याशावधिं को गतः ॥6॥ जीर्णो एव मनोरथाः स्वहृदये स्यातं जरा यौवनं, हन्ताङ्गेषु गुणाश्च वन्ध्य फलतां यातागुणज्ञैर्विना। किंयुक्तं सहसाम्युपैति बलवान् काल कृतान्तोऽक्ष्मी, ह्याज्ञात स्मर जिनेन्द्राघ्रि युगलं मुक्त्वास्ति नान्यागति ।।7।। आशा नाम नदी मनोरथ जलं, तृष्णा तरङ्गाकुला, राग ग्राहवती वितर्क विहगा धैर्य द्रुमध्वंसिनी। मोहावर्तसुदुस्तरातिगहना प्रोत्तुड्ग् चिन्ता तरी, तस्याः पारगता विशुद्ध मनसो नन्दति योगीश्वराः ॥8॥
Jinendra Sharnam Stotra जिनेन्द्र शरणम् स्तोत्र ★ न ताते न माता न बंधुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।।11 भवाब्धाव-पारे, महादुःख भीरुः, प्रपात प्रकामी प्रलोभी प्रमातः। कु संसार पाश प्रबद्ध सदाऽहं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥2॥ न जानामि दानं न च ध्यान योगं, न जानामि तंत्रं न च स्तोत्र मंत्रम्। न जानामि पूजां न च न्यास योगम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥३॥ न पुण्यं जानामि न जानामि तीर्थ, न जानामि मुक्तिं लयं वा कदाचित्। न जानामि भक्तिं व्रतं वापि देवः, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥4॥ कुकर्मी कुसङ्गी कुबुद्धिः कुदासः, कुलाचार हीनः कदाचार लीनः । कुदृष्टिः कुवाक्य प्रबन्ध सदाऽहम्, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ।॥5॥ प्रजेशं 'रमेशं' महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाऽहं शरण्ये, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥6॥ विवादे विषादे प्रमादे प्रदेशे, जले चानले पर्वते शत्रु मध्ये। अरण्ये शरण्ये सदा मां त्रपाहि, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥7॥ अनाथो दरिद्रो जरा रोग युक्तो, महा क्षीण दीनः सदा जाड्य वक्त्र। येयोगीन्द्रसागर प्रभो! दीन हीनं, गतिस्त्वं गतिस्त्वं त्वमेका जिनेन्द्रः ॥8॥
Panch Mahaguru Bhakti पंच महा गुरु भक्ति ★ मणुयणाइंद - सुर-धरिय-छत्तत्तया, पंचकल्लाण - सोक्खावली-पत्तया। दंसणं णाण झाणं अणंतं बलं, ते जिणा दिंतु अम्हं वरं मंगलं॥ जेहिं झाणग्गि-बाणेहिं अइ-दड्ढयं, जम्म-जर-मरण-णयरत्तयं दड्ढयं, जेहिं पत्तं सिवं सासयं ठाणयं, ते महं दिंतु सिद्धा वरं णाणयं॥ पंचहाचार - पंचग्गि - संसाहया, बारसंगाइ - सुअ - जलहि-अवगाहया। मोक्ख-लच्छी महंती महंते सया, सूरिणो दिंतु मोक्खंगया संगया॥ घोर - संसार - भीमाडवी - काणणे, तिक्ख-वियरालणह-पाव-पंचाणणे। णठ-मग्गाण जीवाण पहदेसिया, वंदिमो ते उवज्झाय अम्हे सया॥ उग्ग-तव-चरण-करणेहिं झीणं गया, धम्म-वर-झाण-सुक्केक्क-झाणं गया। णिब्भरं तव सिरी ए समालिंगया, साहवो ते महं मोक्ख-पह-मग्गया॥ एण थोत्तेण जो पंचगुरु वंदए, गुरुय-संसार-घण-वेल्लि सो छिंदए। लहइ सो सिद्धि-सोक्खाइं बहुमाणणं, कुणइ कम्मिंधणं पुंज-पज्जालणं॥ अरुहा सिद्धा-इरिया उवज्झाया साहु-पंचपरमेष्ठी। एयाण-णमोयारा भवे भवे मम सुहं दिंतु॥ अञ्चलिका इच्छामि भंते! पंचमहागुरुभत्तिं काउस्सग्गो कओ, तस्सालोचेउं, अ-महा-पाडिहेर-संजुत्ताणं अरिहंताणं, अ-गुण-संपण्णाणं उड्ढ-लोय-मत्थयम्मि पइियाणं सिद्धाणं, अ-पवयण-माउ-संजुत्ताणं आयरियाणं, आयारादि-सुद-णाणोवदेसयाणं, उवज्झायाणं, ति-रयण-गुण-पालणरयाणं सव्वसाहूणं, णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-संपत्ति होउ मज्झं।
Swaroop Sambhodhan Stotram स्वरूप संबोधन स्तोत्रम् ★ मुक्ताऽमुक्तैकरूपो यः कर्मभिः संविदादिना । अक्षयं परमात्मानं, ज्ञानमूर्तिं नमामि तम् ॥१ ॥ सोऽस्त्यात्मा सोपयोगोऽयं क्रमाद्धेतुफलावहः । यो ग्राह्येोऽग्राह्यानाद्यन्तः स्थित्युत्पत्तिव्ययात्मकः ॥२ ॥ प्रमेयत्वादिभिर्धर्मैरचिदात्मा चिदात्मकः । ज्ञानदर्शनतस्तस्माच्चे तनाचे तनात्मकः ॥ ३ ॥ ज्ञानाद्भिन्नो न चाभिन्नो, भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं, सोऽयमात्मेति कीर्तितः ॥४ ॥ स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि नैव सः । ततः सर्वगतश्चायं, विश्वव्यापी न सर्वथा ॥५ ॥ नानाज्ञानस्वभावत्वादेकोऽनेकोपि नैव सः । चेतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥६॥ स वक्तव्य: स्वरूपाद्यैर्निर्वाच्यः परभावतः । तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ॥७ ॥ सस्याद्विधिनिषेधात्मा, स्वधर्मपरधर्मयोः । समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥८ ॥ इत्याद्यनेकधर्मत्वं, बंधमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥९ ॥ कर्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥१० ॥ आत्मस्वरूप की प्राप्ति का उपाय सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये । तत्त्वे याथात्म्यसौस्थित्यमात्मनो दर्शनं मतं ॥ ११ ॥ यथावद्वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थव्यवसायात्मकथञ्चित्प्रमितेः पृथक् ॥ १२ ॥ दर्शनज्ञानपर्यायेषूत्तरोत्तरभाविषु । स्थिरमालम्बनं यद्वा माध्यस्थ्यं सुखदुःखयोः ॥१३॥ ज्ञाता दृष्टाऽहमेकोऽहं सुखे दुःखे न चापरः । इतीदं भावनादाय, चारित्रमथवा परम् ॥ १४ ॥ तदेतन्मूलहेतोः स्यात्कारणं सहकारकम् । यद्बाह्यं देशकालादि तपश्च बहिरंगकम् ॥१५ ॥ इतीदं सर्वमालोच्य, सौस्थ्ये दौस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं, रागद्वेषविवर्जितम् ॥१६ ॥ कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते। नीलीरक्तेऽम्बरे रागो, दुराधेयो हि काँकुमः ॥ १७ ॥ ततस्त्वं दोषनिर्मुक्त्यै निर्मोहो भव सर्वतः । उदासीनत्वमाश्रित्य तत्त्वचिंतापरी भव ॥ १८ ॥ हेयोपादेयतत्त्वस्य, स्थितिं विज्ञाय हेयतः । निरालम्बो भवान्यस्मादुपेये सावलम्बनः ॥१९॥ स्व- परं चेति वस्तुत्त्वं, वस्तुरूपेण भावय । उपेक्षाभावनोत्कर्षपर्यन्ते, शिवमाप्नुहि ॥ २० ॥ मोक्षेऽपि यस्य नाकांक्षा. स मोक्षमधिगच्छति । इत्युक्तत्वाद्धितान्वेषि, कांक्षां न क्वापि योजयेत् ॥ २१ ॥ साऽपि च स्वात्मनिष्ठत्वात्सुलभा यदि चिन्त्यते । आत्माधीने सुखे तात, यत्नं किं न करिष्यसि ॥२२ ॥ स्वं परं विद्धि तत्रापि, व्यामोहं छिन्धि किन्त्विमम् । अनाकुलस्वसंवेद्ये, स्वरूपे तिष्ठ केवले ॥२३॥ स्वः स्वं स्वेन स्थितं स्वस्मै स्वस्मात्स्वस्याविनश्वरम् । स्वस्मिन् ध्यात्वा लभेत्स्वोत्थमानंदममृतं पदम् ॥२४॥ इति स्वतत्त्वं परिभाव्य वाड्मयम्, य एतदाख्याति शृणोति चादरात् । करोति तस्मै परमार्थसम्पदम्, स्वरूपसंबोधनपंचविंशतिः ॥२५ ॥
Ganesh Suktam गणेश सूक्तम् ★ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । महाहस्ती दक्षिणेन ॥ १ ॥ विद्मा हि त्वा तुविकूर्मिन्तुविदेष्णं तुवीमघम्। तुविमात्रमवोभिः ॥ २ ॥ न हि त्वा शूर देवा न मर्तासो दित्स॑न्तम् । भीमं न गां वारयन्ते ॥ ३ ॥ एतोन्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । न राधसा मर्धिषन्नः ॥ ४ ॥ प्र स्तोषदुपं गासिषच्छ्रवत्सामं गीयमानम् । अभिराधसाजुगुरत् ॥ ५ ॥ आ नो भर दक्षिणेनाभि सुव्येन प्र मृश । इन्द्र मानो वोर्निर्भाक् ॥ ६ ॥ उपक्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशुष्टरस्य वेदः ॥ ७ ॥
Gan Nayak Ashtakam गणनायक अष्टकम् ★ एकदन्तं महाकायं तप्तकांचनसन्निभम् । लंबोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुविलसन्मौलिं वन्देऽहं गणनायकम् ॥ २ ॥ अम्बिकाहृदयानन्दं मातृभिः परिपालितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३ ॥ चित्ररत्नविचित्रांगं चित्रमालाविभूषितम् । चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशांकुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥ मूषिकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६ ॥ यक्षकिन्नरगन्धर्व सिद्धविद्याधरैस्सदा । स्तूयमानं महात्मानं वन्देऽहं गणनायकम् ॥ ७ ॥ सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥ गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः । विमुक्तस्सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ९ ॥ इति श्री गणनायकाष्टकं सम्पूर्णम् । ★
Rudra Suktam रुद्र सूक्तम् ★ ॐ नमस्ते रुद्र मन्यवऽ उतोतऽ इषवे नमः । बाहुभ्याम् उत ते नमः ॥1 ॥ या ते रुद्र शिवा तनूर-घोरा ऽपाप-काशिनी । तया नस्तन्वा शन्तमया गिरिशंताभि चाकशीहि ॥2॥ यामिषं गिरिशंत हस्ते बिभर्म्यस्तवे । शिवां गिरित्र तां कुरु मा हिन्सीः पुरुषं जगत् ॥3॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज् जगद-यक्ष्मम् सुमनाऽ असत् ॥4॥ अध्य वोचद-धिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वान जम्भयन्त् सर्वांश्च यातु-धान्यो ऽधराचीः परा सुव ॥5॥ असौ यस्ताम्रोऽ अरुणऽ उत बभ्रुः सुमंगलः । ये चैनम् रुद्राऽ अभितो दिक्षु श्रिताः ऽवैषाम् हेड ऽईमहे ॥6॥ असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपाऽ अदृश्रन् दृश्रन्नु- दहारयः स दृष्टो मृडयाति नः ॥7॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो येऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरम् नमः ॥8॥ प्रमुंच धन्वनः त्वम् उभयोर आरत्न्योर ज्याम् । याश्च ते हस्तऽ इषवः परा ता भगवो वप ॥9॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवान्ऽ उत । अनेशन्नस्य याऽ इषवऽ आभुरस्य निषंगधिः ॥10॥ या ते हेतिर मीढुष्टम हस्ते बभूव ते धनुः । तया अस्मान् विश्वतः त्वम् अयक्ष्मया परि भुज ॥11॥ परि ते धन्वनो हेतिर अस्मान् वृणक्तु विश्वतः । अथो यऽ इषुधिः तवारेऽ अस्मन् नि-धेहि तम् ॥12॥ अवतत्य धनुष्ट्वम् सहस्राक्ष शतेषुधे । निशीर्य्य शल्यानां मुखा शिवो नः सुमना भव ॥13॥ नमस्तऽ आयुधाय अनातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥14॥ मा नो महान्तम् उत मा नोऽ अर्भकं मा नऽ उक्षन्तम् उत मा नऽ उक्षितम्। मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रूद्र रीरिषः ॥15॥ मा नस्तोके तनये मा नऽ आयुषि मा नो गोषु मा नोऽ अश्वेषु रीरिषः। मा नो वीरान् रूद्र भामिनो वधिर हविष्मन्तः त्वा हवामहे ॥16॥
Parvati Panchak Stotram पार्वती पंचक स्त्रोत्रम् ★ वह लड़के या लड़कियां विवाह का योग नहीं बनता है, और वह अनेक विफल उपाय करा लेते हैं तो पार्वती पंचक स्त्रोत्र का भोलेनाथ के मंदिर में जाकर हर रोज उसका पाठ करें जिससे उसका विवाह का योग बहुत ही जल्द बनता है। इस पाठ को आप ब्राह्मण के द्वारा भी करवा सकते हैं या फिर खुद महादेव के मंदिर में जाकर कर सकते हैं. अगर आप खुद करते हैं तो उसका ज्यादा फायदा होगा। ★ धराधरेन्द्र नन्दिनी शशंक मालि संगिनी, सुरेश शक्ति वर्धिनी नितान्तकान्त कामिनी। निशाचरेन्द्र मर्दिनी त्रिशूल शूल धारिणी, मनोव्यथा विदारिणी शिव तनोतु पार्वती । भुजंग तल्प शामिनी महोग्रकान्त भागिनी, प्रकाश पुंज दायिनी विचित्र चित्र कारिणी। प्रचण्ड शत्रुधर्षिणी दया प्रवाह वर्षिणी, सदा सुभग्य दायिनी शिव तनोतु पार्वती। । प्रकृष्ट सृष्टि कारिका प्रचण्ड नृत्य नर्तिका , पिनाक पाणिधारिका गिरिश ऋग मालिका। समस्त भक्त पालिका पीयूष पूर्ण वर्षिका, कुभाग्य रेखमर्जिका शिव तनोतु पार्वती । तपश्चरी कुमारिका जगत्परा प्रहेलिका, विशुद्ध भाव साधिका सुधा सरित्प्रवाहिका। प्रयत्न पक्ष पौसिका सदार्धि भाव तोषिका, शनि ग्रहादि तर्जिका शिव तनोतु पार्वती । शुभंकरी शिवंकरी विभाकरी निशाचरी, नभश्चरी धराचरी समस्त सृष्टि संचरी । तमोहरी मनोहरी मृगांक मालि सुन्दरी, सदोगताप संचरी,शिवं तनोतु पार्वती।। पार्वती पंचक नित्यमधीयते यत कुमारिका, दृष्कृतं निखिलं हत्वा वरं प्रप्नोति सुन्दरम।।
Rahu Shanti Jain Mantra Jaap राहु शांति जैन मंत्र जाप ★ ॐ नमो अर्हते भगवते श्रीमते नेमि तीर्थंकराय सर्वाण्हयक्ष कुष्मांडीयक्षी सहिताय ॐ आं क्रीं ह्रीं ह्रः राहुमहाग्रह मम दुष्टग्रह, रोग कष्ट निवारणं सर्व शान्तिं च कुरू कुरू हूं फट् । ★
ॐ नमो भगवत्यै कामकलाकालिकायै ओं ओं ओं ओं ओं ह्रीं ह्रीं हूं ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं श्रीं श्रीं क्लीं ह्रीं क्लीं क्लीं क्लीं क्लीं हूं हूं हूं स्त्रीं स्त्रीं स्त्रीं स्त्रीं स्त्रीं हूं ह्रीं ह्रीं ह्रीं ह्रीं संहारभैरवसुरतरसलोलुपायै कों क्रों कों क्रों कों ह्रीं ह्रीं ह्रीं ह्रौं ह्रौं फ्रें फ़्रें फ्रें फ्रें फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें क्षं क्षं क्षं क्षं क्षं स्फों स्फों स्फों स्फों स्फों स्हौं स्हौं स्हौं स्हौंः स्हौंः ग्लूं ग्लूं ग्लूं ग्लूं ग्लूं क्षौं क्ष क्ष क्ष क्ष फ्रों फ्रों फ्रों फ्रों फ्रों कीं कीं क्रीं क्रीं क्रीं क्रीं क्रौं कौं कौं कौं जूं जूं जूं जूं जूं क्लूं क्यूं क्लूं क्लूं क्यूं प्रकटविकटदशनविकरालवदनायै क्लौं क्लौं क्लौं क्लौं क्लौं ब्लौं ब्लौं ब्लौं ब्लौं ब्लौं क्षं क्षं क्षं क्षं क्षं द्रीं द्रीं द्रीं द्रीं ह्रीं प्रीं प्रीं प्रीं प्रीं प्रीं हभ्रीं हीं हीं हभ्रीं ह्रीं स्हें स्हें स्हें स्हें स्हें घ्रीं ह्रीं ह्रीं ह्रीं ह्रीं सृष्टिस्थितिसंहारकारिण्यै मदनातुरायै झैं झैं कैं कैं कैं श्रीं श्रीं श्रीं श्रीं श्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ठौं ठौं ठौं ठौं ठौं ब्लूं ब्लूं ब्लूं ब्लूं ब्लूं भ्रं भ्रू भ्रू श्रूं भ्रू फहलक्षां फहलक्षां फहलक्षां फहलक्षां फहलक्षां भयङ्करदंष्ट्रायुगलमुखररसनायै घ्रीं ह्रीं ह्रीं ह्रीं घ्रीं खें खें खें खें खें कूं कूं कूं कूं कूं श्रीं श्रीं श्रीं श्रीं श्रीं चफलकों चफलकों चफलकों चफलकों चफलकों कूं कूं कूं कूंकूं गं गं गं गं गं हूः हूः हूः हूः हूः सकचनरमुण्डकृत कुलायै ल्यूं ल्यूं ल्यूं ल्यूं ल्यूं जूं जूं गूं गूं जूं हैं हैं हैं हैं क्लौं क्लौं क्लौं क्लौं क्लौं बूं ब्रू ब्रू ब्रू ब्रू स्कीः स्कीः स्कीः स्कीः स्कीः ब्जं ब्जं ब्जं ब्जं ब्जं रहीं रहीं रहीं रहीं रहीं महाकल्पान्तब्रह्माण्डचर्वणकरायै हैं हैं हैं हैं अं अं अं अं आं इं ई इं इं इं उं उं उं उं उं स्हें स्हें स्हें स्हें स्हें रां रां रां रां रां गं गं गं गं गं गां गां गां गां गां युगभेदभिन्नगुह्यकाल्येकमूर्तिधरायै फ्रें फ्रें फ्रें फें फ्रें खफें खफें खर्फे खर्फे खफें हसर्फी हसफी हसर्फी हसफ्रीं हसीं हसख हसखफें हसखफें हसखफें हसखझें क्षरहीं क्षरहीं
ॐ सुदर्शने नम: ॐ आं ह्रीं क्रौँ नमो भगवते प्रलय काल महा ज्वाला घोरवीर सुदर्शन नृसिंहाय ॐ महा चक्र राजाय महा बले सहस्रकोटिसूर्यप्रकाशाय सहस्रशीर्षाय सहस्रअक्षाय सहस्रपादाय संकर्षणात्मने सहस्रदिव्याश्र सहस्र हस्ताय सर्वतोमुख ज्वलन ज्वाला माला वृताया विस्फुलिंग स्फोट परिस्फोटित ब्रह्माण्ड भानडाय महा पराक्रमाय महोग्र विग्रहाय महावीराय महाविष्णुरुपिणे व्यतीत कालान्तकाय महाभद्र रोद्रावताराय मृत्युस्वरूपाय किरीट-हार-केयूर-ग्रेवेयक-कटक अन्गुलयी-कटिसूत्र मजीरादी कनकमणि खचित दिव्य भूषणाय महा भीषणाय महा भिक्षया व्याहत तेजो रूप निधेय रक्त चंडान्तक मण्डितम दोरु कुंडा दूर निरिक्षणाय प्रत्यक्षाय ब्रह्मचक्र विष्णुचक्र कालचक्र भूमिचक्र तेजोरूपाय आश्रितरक्षाय/ ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम शत्रून नाशय नाशय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ज्वल ज्वल प्रज्वल प्रज्वल चंड चंड प्रचंड प्रचंड स्फुर प्रस्फुर घोर घोर घोरतर घोरतर चट चट प्रचटं प्रचटं प्रस्फुट दह कहर भग भिन्धि हंधी खट्ट प्रचट फट जहि जहि पय सस प्रलय वा पुरुषाय रं रं नेत्राग्नी रूपाय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही आगच्छ आगच्छ भूतग्रह- प्रेतग्रह- पिशाचग्रह-दानावग्रह-कृत्रिमग्रह- प्रयोगग्रह-आवेशग्रह- आगतग्रह-अनागतग्रह-ब्रह्म्ग्रह-रुद्रग्रह-पतालग्रह- निराकारग्रह -आचार-अनाचार ग्रह- नन्जाती ग्रह- भूचर ग्रह- खेचर ग्रह- वृक्ष ग्रह- पिक्षीचर ग्रह- गिरीचर ग्रह- श्मशानचर ग्रह -जलचर ग्रह -कूपचर ग्रह- देगारचल ग्रह- शुन्यगारचर ग्रह- स्वप्न ग्रह- दिवामनो ग्रह- बालग्रह -मूकग्रह- मुख ग्रह -बधिर ग्रह- स्त्री ग्रह- पुरुष ग्रह- यक्ष ग्रह- राक्षस ग्रह- प्रेत ग्रह –किन्नर ग्रह- साध्यचर ग्रह – सिद्धचर ग्रह -कामिनी ग्रह- मोहनी ग्रह-पद्मिनी ग्रह- यक्षिणी ग्रह- पक्षिणी ग्रह संध्या ग्रह-उच्चाटय उच्चाटय भस्मी कुरु कुरु स्वाहा ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ क्षरां क्षरीं क्षरूं क्षरें क्षरों क्षर : भ्रां भ्रीं भ्रूं भ्रै भ्रौं भ्र: ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्र: घ्रां घ्रीं घ्रूं घ्रै घ्रौं घ्र: श्रां श्रीं श्रुं श्रें श्रों श्र: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही सालवं संहारय शरभं क्रन्दया विद्रावय विद्रावय भैरव भीषय भीषय प्रत्यांगिरी मर्दय मर्दय चिदंबरम बंधय बंधय विदम्बरम ग्रासय ग्रासय शांर्म्भ्वा निबंतय कालीं दह दह महिषासुरी छेदय छेदय दुष्ट शक्ति निर्मूलय निर्मूलय रूं रूं हूँ हूँ मुरु मुरु परमन्त्र – परयन्त्र – परतंत्र कटुपरं वादपर जपपर होमपर सहस्र दीप कोटि पुजां भेदय भेदय मारय मारय खंडय खंडय परकृतकं विषं निर्विष कुरु कुरु अग्नि मुख प्रकांड नानाविध कृतं मुख वनमुखं ग्राहान चुर्णय चुर्णय मारी विदारय कुष्मांड वैनायक मारीचगणान भेदय भेदय मन्त्रं परअस्माकं विमोचय विमोचय अक्षिशूल कुक्षीशूल गुल्मशूल पार्श्वशूल सर्वाबाधा निवारय निवारय पांडूरोगं संहारय संहारय विषम ज्वर त्रासय त्रासय एकाहिकं द्वाहिकं त्र्याहिकं चातुर्थिकं पंचाहिकं षष्टज्वर सप्तमज्वर अष्टमज्वर नवमज्वर प्रेतज्वर पिशाचज्वर दानवज्वर महाकालज्वरं दुर्गाज्वरं ब्रह्माविष्णुज्वरं माहेश्वरज्वरं चतु:षष्टि योगिनीज्वरं गन्धर्वज्वरं बेतालज्वरं एतान ज्वरान्न नाशय नाशय दोषं मंथय मंथय दुरित हर हर अन्नत वासुकी तक्षक कालौय पद्म कुलिक कर्कोटक शंख पलाद्य अष्ट नाग कुलानां विषं हन हन खं खं घं घं पाशुपतं नाशय नाशय शिखंडी खंडय खंडय प्रमुख दुष्ट तंत्र स्फोटय स्फोटय भ्रामय भ्रामय महानारायणास्त्राय पंचाशधरणरूपाय लल लल शरणागत रक्षणाय हूँ हूँ गं वं गं वं शं शं अमृतमूर्तये तुभ्यं नम: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प
Angarak (Mangal) Kavacham अङ्गारक (मङ्गल) कवचम् ★ अस्य श्री अङ्गारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चन्दः, अङ्गारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥ ★ ध्यानम् रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ ★ अथ अङ्गारक कवचम् अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः । श्रव रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः भुज में रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ 2 ॥ वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥ जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥ ★ फलश्रुतिः य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥ रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥ ॥ इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ॥
Dakshin Kali Dhyan दक्षिण काली ध्यान ★ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां दक्षिणां दिव्यां मुण्डमाला विभूषिताम् ॥ सद्यः छिन्नशिरः खड्गवामाधोर्ध्व कराम्बुजाम् । अभयं वरदञ्चैव दक्षिणोर्ध्वाध: पाणिकाम् ॥ महामेघ प्रभां श्यामां तथा चैव दिगम्बरीम् । कण्ठावसक्तमुण्डाली गलद्रुधिर चर्चिताम् ॥ कर्णावतंसतानीत शवयुग्म भयानकां । घोरदंष्ट्रां करालास्यां पीनोन्नत पयोधराम् ॥ शवानां कर संघातैः कृतकाञ्ची हसन्मुखीम् । सृक्कद्वयगलद् रक्तधारां विस्फुरिताननाम् ॥ घोररावां महारौद्रीं श्मशानालय वासिनीम् । बालर्क मण्डलाकार लोचन त्रितयान्विताम् ॥ दन्तुरां दक्षिण व्यापि मुक्तालम्बिकचोच्चयाम् । शवरूप महादेव ह्रदयोपरि संस्थिताम् ॥ शिवाभिर्घोर रावाभिश्चतुर्दिक्षु समन्विताम् । महाकालेन च समं विपरीत रतातुराम् ॥ सुखप्रसन्न-वदनां स्मेरानन सरोरुहाम । एवं सञ्चिन्तयेत् कालीं सर्वकामार्थ सिद्धिदाम् ॥
Panch Mahaguru Bhakti पञ्च महागुरु भक्ति ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं प्रणाम करता हूँ। अष्टगुणैः समुपेतान् प्रणष्ट-दुष्टाष्टकर्म-रिपुसमितीन् । सिद्धान् सतत-मनन्तान् नमस्करोमीष्ट-तुष्टि संसिद्ध्यै ॥२॥ आठ गुणों से युक्त दुष्ट- अष्ट कर्म-शत्रु के समूह को नष्ट किया है जिन्होंने ऐसे अनन्त सिद्धों को सन्तोष की सिद्धि के लिए सदैव नमस्कार करता हूँ। साचार- श्रुत- जलधीन् प्रतीर्य शुद्धोरुचरण-निरतानाम् । आचार्याणां पदयुग कमलानि दधे शिरसि मेऽहम् ॥३॥ आचार सहित श्रुत सागर को तैरकर शुद्ध, महान चारित्र में निरत चरण युगलकमल को अपने शिर पर मैं धारण करता हूँ। मिथ्यावादि मद्रोग्र ध्वान्त-प्रध्वंसि वचन - संदर्भान् । उपदेशकान् प्रपद्ये मम दुरितारि - प्रणाशाय ॥४॥ मिथ्यावादियों के गर्वरूपी उग्र अन्धकार के नाशक वचनों के सन्दर्भ वाले उपदेशकों को मैं अपने पाप शत्रु का नाश करने के लिए प्राप्त होता हूँ। सम्यग्दर्शन दीप प्रकाशका मेय-बोध-सम्भूताः । भूरि-चरित्र पताकास् ते साधु-गणास्तु मां पान्तु ॥५ ॥ जो सम्यग्दर्शनरूपी दीपक को प्रकाशित करते हैं, जो व्यापक ज्ञान से सम्पन्न हैं जो उत्कृष्ट चारित्र की ध्वजा हैं, वह साधुगण ही मेरी रक्षा करें। जिनसिद्ध-सूरिदेशक साधु-वरानमल-गुण- गणोपेतान् । पञ्चनमस्कारपदैस् त्रिसन्ध्यमभिनौमि मोक्षलाभाय ॥६॥ निर्मल गुण-गण से युक्त जिन, सिद्ध, आचार्य, उपाध्याय और उत्कृष्ट साधुओं को मोक्ष की प्राप्ति के लिए पञ्च नमस्कार पदों के द्वारा तीनों संध्याओं में नमस्कार करता हूँ । एष पञ्चनमस्कारः सर्व पापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं मङ्गलं मतम् ॥७॥ यह पञ्च नमस्कार सभी पापों का नाशक और सभी मंगलों में पहला मंगल माना है। अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधवः । कुर्वन्तु मङ्गलाः सर्वे निर्वाण- परमश्रियम् ॥८ ॥ अर्हन्त, सिद्ध, आचार्य, उपाध्याय और समस्त साधु मंगल रूप हैं यह सभी निर्वाणरूपी उत्कृष्ट लक्ष्मी को करें। सर्वांन्- जिनेन्द्र-चन्द्रान् सिद्धानाचार्य पाठकान् साधून् । रत्नत्रयं च वन्दे रत्नत्रय - सिद्धये भक्त्या ॥९॥ सभी जिनेन्द्र चन्द्रों को सिद्ध को आचार्य, उपाध्यायों को और साधुओं को तथा रत्नत्रय को रत्नत्रय की सिद्धि के लिए भक्ति से नमस्कार करता हूँ । पान्तु श्रीपाद पद्मानि पञ्चानां परमेष्ठिनाम्। लालितानि सुराधीश चूड़ामणि मरीचिभिः ॥१०॥ इन्द्र के चूड़ामणि की किरणों से सेवित पाँचों परमेष्ठियों के श्री चरण कमल रक्षा करें। प्रातिहार्यैर्जिनान् सिद्धान् गुणैः सिद्धान् गुणैः सूरीन् स्वमातृभिः । पाठकान् विनयैः साधून् योगाङ्गैरष्टभिः स्तुवे ॥११॥ जिनेन्द्र भगवान् की प्रतिहार्यों से सिद्धों की गुणों से आचार्यों को अपनी मातृकाओं से उपाध्यायों को विनय से साधुओं को आठ योगों से स्तुति करता हूँ। अञ्चलिका अर्थ- हे भगवन्! मैंने पंच महागुरु भक्ति का कायोत्सर्ग किया है, उसकी मैं आलोचना करने की इच्छा करता हूँ। अष्ट-महा प्रातिहार्यों से युक्त अरहन्त, अष्ट गुणों से सम्पन्न तथा ऊर्ध्व लोक के मस्तक पर प्रतिष्ठित सिद्ध, अष्ट प्रवचन मातृकाओं से युक्त आचार्य, आचारांग आदि श्रुत ज्ञान का उपदेश देने वाले उपाध्याय और रत्नत्रय गुणों के पालन में रत सभी साधू परमेष्ठी की मैं सदा अर्चना करता हूँ, पूजा करता हूँ, वंदना करता हूँ, नमस्कार करता हूँ, मेरे दुःखों का क्षय हो, कर्मों का क्षय हो, बोधिलाभ हो, सुगति में गमन हो, समाधि मरण हो और मुझे जिनेन्द्र भगवान् के गुणों की प्राप्ति होवे।
Yuktyanushasana by Acharya Samantabhadra आचार्य समंतभद्र विरचित युक्त्यनुशासन
Kaamkala Kali Dhyanam कामकला काली ध्यानम् ★ उद्यद्घनाघनाश्लिष्यज्जवा कुसुम सन्निभाम्॥ मत्तकोकिलनेत्राभां पक्वजम्बूफलप्रभाम्। सुदीर्घप्रपदालम्बि विस्रस्तघनमूर्द्धाजाम्॥ ज्वलदङ्गार वच्छोण नेत्रत्रितयभूषिताम्। उद्यच्छारदसंपूर्णचन्द्रकोकनदाननाम्॥ दीर्घदंष्ट्रायुगोदञ्चद् विकराल मुखाम्बुजाम्। वितस्तिमात्र निष्क्रान्त ललज्जिह्वा भयानकाम्॥ व्यात्ताननतया दृश्यद्वात्रिंशद् दन्तमण्डलाम्। निरन्तरम् वेपमानोत्तमाङ्गा घोररूपिणीम्॥अंसासक्तनृमुण्डासृक् पिबन्ती वक़कन्धराम्। सृक्कद्वन्द्वस्रवद्रक्त स्नापितोरोजयुग्मकाम्॥ उरोजा भोग संसक्त संपतद्रुधिरोच्चयाम्।l सशीत्कृतिधयन्तीं तल्लेलिहानरसज्ञया॥ ललाटे घननारासृग् विहितारुणचित्रकाम्। सद्यश्छिन्नगलद्रक्त नृमुण्डकृतकुण्डलाम्॥ श्रुतिनद्धकचालम्बिवतंसलसदंसकाम। स्रवदस्रौघया शश्वन्मानव्या मुण्डमालया॥ आकण्ठ गुल्फलंबिन्यालङ्कृतां केशबद्धया। श्वेतास्थि गुलिका हारग्रैवेयकमहोज्ज्वलाम्॥ शवदीर्घाङ्गुली पंक्तिमण्डितोरः स्थलस्थिराम्। कठोर पीवरोत्तुङ्ग वक्षोज युगलान्विताम्॥ महामारकतग्राववेदि श्रोणि परिष्कृताम्। विशाल जघना भोगामतिक्षीण कटिस्थलाम्॥ अंत्रनद्धार्भक शिरोवलत्किङ्किणि मण्डिताम्। सुपीनषोडश भुजां महाशङ्खाञ्चदङ्गकाम्॥ शवानां धमनीपुञ्जैर्वेष्टितैः कृतकङ्कणाम्। ग्रथितैः शवकेशस्रग्दामभिः कटिसृत्रिणीम्॥ शवपोतकरश्रेणी ग्रथनैः कृतमेखलाम्। शोभामानांगुलीं मांसमेदोमज्जांगुलीयकैः॥ असिं त्रिशूलं चक्रं च शरमंकुशमेव च। लालनं च तथा कर्त्रीमक्षमालां च दक्षिणे॥ पाशं च परशुं नागं चापं मुद्गरमेव च। शिवापोतं खर्परं च वसासृङ्मेदसान्वितम्॥ लम्बत्कचं नृमुण्डं च धारयन्तीं स्ववामतः। विलसन्नूपुरां देवीं ग्रथितैः शवपञ्जरैः॥ श्मशान प्रज्वलद् घोरचिताग्निज्वाल मध्यगाम्। अधोमुख महादीर्घ प्रसुप्त शवपृष्ठगाम्॥ वमन्मुखानल ज्वालाजाल व्याप्त दिगन्तरम्। प्रोत्थायैव हि तिष्ठन्तीं प्रत्यालीढ पदक्रमाम्॥ वामदक्षिण संस्थाभ्या नदन्तीभ्यां मुहुर्मुहुः। शिवाभ्यां घोररूपाभ्यां वमन्तीभ्यां महानलम्॥ विद्युङ्गार वर्णाभ्यां वेष्टितां परमेश्वरीम्। सर्वदैवानुलग्नाभ्यां पश्यन्तीभ्यां महेश्वरीम्॥ अतीव भाषमाणाभ्यां शिवाभ्यां शोभितां मुहुः। कपालसंस्थं मस्तिष्कं ददतीं च तयोर्द्वयोः॥ दिगम्बरां मुक्तकेशीमट्टहासां भयानकाम्। सप्तधानद्धनारान्त्रयोगपट्ट विभूषिताम्॥ संहारभैरवेणैव सार्द्धं संभोगमिच्छतीम्। अतिकामातुरां कालीं हसन्तीं खर्वविग्रहाम्॥ कोटि कालानल ज्वालान्यक्कारोद्यत् कलेवरम्। महाप्रलय कोट्यर्क्क विद्युदर्बुद सन्निभाम्॥ कल्पान्तकारणीं कालीं महाभैरवरूपिणीम्। महाभीमां दुर्निरीक्ष्यां सेन्द्रैरपि सुरासुरैः॥ शत्रुपक्षक्षयकरीं दैत्यदानवसूदनीम्। चिन्तयेदीदृशीं देवीं काली कामकलाभिधाम्॥ यह देवी उगते हुए सूर्य के साथ रक्तवर्ण वाले बादल, संश्लिष्ट जवाकुसुम, मत्त कोकिल के नेत्र के जैसी, पके हुए जामुन के फल की कान्तिवाली है । इसके पैरों तक लटकते घने बाल बिखरे हुए हैं । जलते अङ्गारे जैसे लाल तीन नेत्रों से यह विभूषित है । इनका मुख उगते हुए शारदीय पूर्णचन्द्र तथा लाल कमल के समान है । दो लम्बे दाँत बाहर निकलने से विकराल मुख वाली हैं । बाहर निकली हुई लपलपाती जीभ के कारण भयानक है । खुले मुख में बत्तीसो दाँत दिख रहे हैं । शिर निरन्तर काँप रहा है अतएव घोर रूप वाली है । गले में लटके नरमुण्ड से निकलते रक्त को पीती हुई वक्रकन्धे वाली हैं । जबड़ों से स्रवित रक्त इसके विस्तृत दोनों स्तन उपलिप्त कर रक्त बह रहा है जिसे लेलिहान जिह्वा से सीत्कार के साथ वह पी रही है । ललाट पर नर रक्त से बना लालरंग का चित्र है। गिरते रक्त वाले नरमुण्ड का उसने कुण्डल धारण किया है । कानों में बँधे हुए बालों से कर्णाभूषण कन्धे तक लटक रहा है । बालों से परस्पर बँधे हुए रक्त टपकते नरमुण्डों की माला से वे अलङ्कृत हैं । हड्डी से बने हार एवं ग्रैवेयक उज्ज्वल हैं । शव की अङ्गुलियों की माला से उनका दृढ़ उरस्थल अलङ्कृत है । वे कठोर विशाल और ऊँचे दो स्तनों वाली हैं । इनके उत्तम नितम्ब महा मरकत पत्थर से निर्मित वेदी के समान चिकने, कठोर और समतल हैं । उनके जघन का विस्तार अत्यधिक है और कटि अत्यन्त क्षीण है । आँतों से बँधे हुए बच्चों के शिररूपी करधनी से वे मण्डित हैं । वे सोलह भुजा वाली हैं । मनुष्य के कपाल से शोभायमान है । शवों की धमनियों को हाथ में लपेट कर कङ्कण बना लिया है । शव के गुँथे बालों से उनका कटिसूत्र बना है । मृत शिशु के हाथों को गूंथ कर उन्होंने करधनी बनायी है । अङ्गुलियों में मांस, मेदा, मज्जा की अङ्गठियाँ पहनी हैं । दायें हाथों में खड्ग, त्रिशूल, चक्र, बाण, अङ्कश, विषधर लालन, कैंची और अक्षमाला तथा अपने बायें हाथों में पाश, परशु, नाग, धनुष, मुद्गर, सियार का बच्चा तथा वसा रक्त और मेदा से भरा कपाल
Siddh Shrut Acharya Bhakti सिद्ध श्रुत आचार्य भक्ति ★ • श्रीसिद्धभक्ति • अथ पौर्वाह्निक (अपराह्निक) आचार्य-वन्दना-क्रियायां पूर्वाचार्यानुक्रमेण, सकलकर्मक्षयार्थं भाव-पूजा-वन्दना-स्तव-समेतं श्रीसिद्धभक्तिकायोत्सर्गं कुर्वेऽहम्। (9 बार णमोकार) सम्मत्त-णाण-दंसण-वीरिय-सुहुमं तहेव अवगहणं। अगुरुलहु-मव्वावाहं, अट्ठगुणा होंति सिद्धाणं॥ 1॥ तवसिद्धे, णय-सिद्धे, संजम-सिद्धे, चरित्त-सिद्धे य। णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि॥ 2॥ इच्छामि भंते। सिद्ध-भत्ति-काउस्सग्गो कओ तस्सालोचेउं सम्म -णाण-सम्म-दंसण-सम्मचरित्त-जुत्ताणं, अट्ठविह-कम्म-विप्पमुक्काणं-अट्ठगुण-संपण्णाणं उड्ढलोय- मत्थयम्मि पइट्ठियाणं तव-सिद्धाणं, णय-सिद्धाणं, संजम-सिद्धाणं,चरित्त-सिद्धाणं अतीदा-णागद-वट्ठमाण-कालत्तय-सिद्धाणं सव्वसिद्धाणं णिच्चकालं अंचेमि पुज्जेमि वंदामि, णमंसामि-दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइ-गमणं समाहिमरणं जिणगुण संपत्ति होउ मज्झं। • श्रुत भक्ति • अथ पौर्वाह्निक (अपराह्निक) आचार्य-वन्दना-क्रियायां पूर्वाचार्यानुक्रमेण, सकलकर्मक्षयार्थं,भाव-पूजा-वन्दनास्तव-समेतं श्रीश्रुतभक्तिकायोत्सर्गं कुर्वेऽहम्। (9 बार णमोकार) कोटिशतं द्वादश चैव कोट्यो, लक्षाण्यशीतिस्त्र्यऽधिकानि चैव। पञ्चाश-दष्टौ च सहस्रसंख्यम ऐतच्छुतं पञ्चपदं नमामि॥ 1॥ अरहंत-भासियत्थं-गणहर-देवेहिं गंथियं सम्मं पणमामि भत्ति-जुत्तो, सुद-णाणमहोवहिं सिरसा॥ 2॥ इच्छामि भंते ! सुदभत्ति-काउसग्गो कओ तस्सालोचेउं अंगोवंग-पइण्णय-पाहुडय-परियम्म-सुत्त पढमाणु-ओग-पुव्वगय-चूलिया चेव-सुत्तत्थय-थुइ-धम्म-कहाइयं णिच्च-कालं अंचेमि पुज्जेमि वंदामि णमंसामि-दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइ-गमणं समाहि-मरणं जिणगुण-संपत्ति होउ-मज्झं। • आचार्य भक्ति • अथ पौर्वाह्निक (अपराह्निक) आचार्य-वन्दना- क्रियायां, पूर्वाचार्यानुक्रमेण, सकलकर्मक्षयार्थं,भाव-पूजा-वन्दना स्तव-समेतं श्रीआचार्यभक्तिकायोत्सर्गं कुर्वेऽहम्। (9 बार णमोकार) श्रुतजलधिपारगेभ्य:, स्व-पर-मतविभावना पटुमतिभ्य:। सुचरित-तपोनिधिभ्यो, नमो गुरुभ्यो-गुण-गुरुभ्य:॥ 1॥ छत्तीस-गुण-समग्गे, पञ्च-विहाचार-करण-संदरिसे। सिस्सा-णुग्गह-कुसले, धम्मा-इरिये सदा वंदे॥ 2॥ गुरु-भत्ति-संजमेण य, तरंति संसार-सायरं घोरम्। छिण्णंति अट्ठकम्मं, जम्मण-मरणं ण पावेंति॥ 3॥ ये नित्यं-व्रत-मन्त्र-होम-निरता, ध्यानाग्नि-होत्राकुला:। षट्कर्माभिरतास्-तपोधनधना:, साधु-क्रिया: साधव:॥4॥ शील-प्रावरणा-गुण-प्रहरणाश्-चन्द्रार्क-तेजोऽधिका:। मोक्ष-द्वार-कपाट-पाटन-भटा:, प्रीणन्तु मां साधव:॥ 5॥ गुरव: पान्तु नो नित्यं ज्ञान-दर्शन-नायका:। चारित्रार्णव गम्भीरा मोक्ष मार्गोपदेशका:॥ 6॥ इच्छामि भंते! आइरियभत्तिकाउसग्गो कओ, तस्सालोचेउं, सम्मणाण-सम्मदंसण-सम्मचरित्त-जुत्ताणं, पंचविहाचाराणं, आइरियाणं आयारादि-सुद-णाणोवदेसयाणं उवज्झायाणं, ति-रयण-गुण-पालण-रयाणं सव्वसाहूणं, णिच्च-कालं, अंचेमि, पुज्जेमि, वंदामि, णमंसामि, दुक्ख-क्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं-समाहिमरणं, जिणगुणसंपत्ति होउ मञ्झं। विद्यासागर-विश्ववंद्य-श्रमणं, भक्त्या सदा संस्तुवे, सर्वोच्चं यमिनं विनम्य परमं, सर्वार्थसिद्धिप्रदम्। ज्ञानध्यानतपोभिरक्त -मुनिपं, विश्वस्य विश्वाश्रयं, साकारं श्रमणं विशालहृदयं, सत्यं शिवं सुन्दरम्॥
Shiva Namavali Ashtakam शिव नामावली अष्टकम् ★ हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो । भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥१॥ हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशजाप । हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥२॥ हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व । हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ॥३॥ हे विश्वनाथ शिव शङ्कर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश । बाणेश्वरान्धकरिपो हर लोकनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥४॥ वाराणसीपुरपते मणिकर्णिकेश वीरेश दक्षमखकाल विभो गणेश । सर्वज्ञ सर्वहृदयैकनिवास नाथ संसारदुःखगहनाज्जगदीश रक्ष ॥५॥ श्रीमन्महेश्वर कृपामय हे दयाळो हे व्योमकेश शितिकण्ठ गणाधिनाथ । भस्माङ्गराग नृकपालकलापमाल संसारदुःखगहनाज्जगदीश रक्ष ॥६॥ कैलासशैलविनिवास वृषाकपे हे मृत्युंजय त्रिनयन त्रिजगन्निवास । नारायणप्रिय मदापह शक्तिनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥७॥ विश्वेश विश्वभवनाशितविश्वरूप विश्वात्मक त्रिभुवनैकगुणाभिवेश । हे विश्वबन्धु करुणामय दीनबन्धो संसारदुःखगहनाज्जगदीश रक्ष ॥८॥ गौरीविलासभुवनाय महेश्वराय पञ्चाननाय शरणागतरक्षकाय । इति श्रीमच्छङ्कराचार्यविरचितं शिवनामावल्यष्टकं संपूर्णम ॥
Aanjaneya Mantra आञ्जनेय मंत्र ★ ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा। ★ यह हनुमान जी का एक शक्तिशाली मंत्र है, और ऐसा माना जाता है कि प्रतिदिन 21 बार इसका जाप करने से सभी रोग दूर हो जाते हैं, बुरी आत्माएं दूर हो जाती हैं और जीवन में स्थिरता आ जाती है।
Mantra offering food to Agnidev अग्नि जिमाने का मन्त्र ★ ॐ भूपतये स्वाहा, ॐ भुवनप, ॐ भुवनपतये स्वाहा । ॐ भूतानां पतये स्वाहा ।। ★ कहकर बने हुए भोजन की तीन आहूतियाँ डालें ।
Dash Shloki Stuti दशश्लोकी स्तुतिः ★ दशश्लोकी स्तुतिः के समर्पित भगवान श्री शिव जी हैं ! दशश्लोकी स्तुतिः के रचियता श्री शंकराचार्य जी हैं ★ साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं, साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे, साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणाः जेतुं न शक्ताः स्वयं, यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजितास्सुमनसः स्वस्था बभूवुस्ततः, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥ क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं, कोदण्डः कनकाचलॊ हरिरभूद्बाणो विधिः सारथिः । तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिपः, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥ येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं, येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् । येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥ गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा, वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां वरः । यस्य स्थंभितपाणिरानतिकृता नन्दीश्वरेणाभवत्, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥ आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते, शीतांशुः प्रसवायते स्थिरतरानन्द स्वरूपायते । वेदान्तो निलयायते सुविनयो यस्य स्वभावायते, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥ विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय, न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये । संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभवत्, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥ शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने, चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने । मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥ यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो, विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । ॐकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥ विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा, संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् । तानार्तान् शरणागतानिति सुरान्योऽरक्षदर्धक्षणात्, तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १० ॥ इति श्रीमच्छङ्कराचार्यविरचितं दश श्लोकि स्तुति:।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम्। तेना सहस्रधारेण पवमानः पुनातु माम्॥१॥ जो सहस्रों नेत्रवाला, सैकड़ों धाराओं में बहनेवाला तथा ऋषियोंसे पवित्र किया गया है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१॥ येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः। तेना सहस्रधारेण पवमानः पुनातु माम्॥२॥ जिससे अन्तरिक्ष पवित्र हुआ है, वायु जिसमें अधिष्ठित है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥२॥ येन पूते द्यावापृथिवी आपः पूता अथो स्वः । तेना सहस्त्रधारेण पवमानः पुनातु माम्॥३॥ जिससे द्युलोक, पृथिवी, जल और स्वर्ग पवित्र किये गये हैं, उन सहस्त्रधार सोमसे पवमान मुझे पवित्र करे॥३॥ येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः। तेना सहस्रधारेण पवमानः पुनातु माम्॥४॥ जिससे रात और दिन, दिशा-प्रदिशाएँ पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥४॥ येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥५॥ जिससे सूर्य और चन्द्रमा, नक्षत्र और भौतिक पदार्थ पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥५॥ येन पूता वेदिरग्नयः परिधयः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥६॥ जिससे वेदी, अग्नि और परिधि पवित्र की गयी हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥६॥ येन पूतं बर्हिराज्यमथो हविर्येन पूतो यज्ञो वषट्कारो हुताहुतिः। तेना सहस्रधारेण पवमानः पुनातु माम्॥७॥ जिससे कुशा, आज्य, हवि, यज्ञ, वषट्कार तथा हवन की हुई आहुति पवित्र हुए हैं,उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥७॥ येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः। तेना सहस्रधारेण पवमानः पुनातु माम्॥८॥ जिसके द्वारा व्रीहि और जौ पवित्र हुए हैं, जिससे यज्ञ का निर्माण हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥८॥ येन पूता अश्वा गावो अथो पूता अजावयः। तेना सहस्त्रधारेण पवमानः पुनातु माम्॥९॥ जिससे अश्व, गौ, अजा, अवि प्राण पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥९॥ येन पूता ऋचः सामानि यजुर्जाह्मणं सह येन पूतम्। तेना सहस्रधारेण पवमानः पुनातु माम्॥१०॥ जिसके द्वारा ऋचाएँ, साम, यजु और ब्राह्मण पवित्र हुए हैं, उस सहस्रधारके द्वारा पवमान मुझे पवित्र करे॥१०॥ येन पूता अथर्वाङ्गिरसो देवताः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥११॥ जिससे अथर्वाङ्गिरस और देवता पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥११॥ येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१२॥ जिससे ऋतु तथा ऋतुओं में उत्पन्न होनेवाले रस पवित्र हुए हैं, एवं जिससे संवत्सरका निर्माण हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१२॥ येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१३॥ जिससे वनस्पतियाँ, पुष्पसे फल देनेवाले वृक्ष, ओषधियाँ और लताएँ पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१३॥ येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१४॥ जिससे गन्धर्व, अप्सराएँ, सर्प और यक्ष पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१४॥ येन पूताः पर्वता हिमवन्तो वैश्वानराः परिभुवः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१५॥ जिससे हिममण्डित पर्वत, वैश्वानर अग्नि और परिधि पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१५॥ येन पूता नद्यः सिन्धवः समुद्राः सह येन पूताः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१६॥ जिससे नदियाँ, सिंधु आदि महानद और सागर पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१६॥ येन पूता विश्वेदेवाः परमेष्ठी प्रजापतिः। तेना सहस्रधारेण पवमानः पुनातु माम्॥१७॥ जिससे विष्णु और परमेष्ठी प्रजापति पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१७॥ येन पूतः प्रजापतिर्लोकं विश्वं भूतं स्वराजभार। तेना सहस्रधारेण पवमानः पुनातु माम्॥१८॥ जिससे पवित्र होकर प्रजापतिने समस्त लोको, भूतों और स्वर्गको धारण किया है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥१८॥ येन पूतः स्तनयित्नुरपामुत्सः प्रजापतिः । तेना सहस्रधारेण पवमानः पुनातु माम्॥१९॥ जिससे विद्युत् और जलोंके आश्रय प्रजापालक मेघ पवित्र हुए हैं, उस सहस्रधार सौमसे पवमान मुझे पवित्र करे॥१९॥ येन पूतमृतं सत्यं तपो दीक्षां पूतयते। तेना सहस्रधारेण पवमानः पुनातु माम्॥२०॥ जिससे ऋत और सत्य पवित्र हुए हैं, जो तप और दीक्षाको पवित्र करता है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ २० ॥ येन पूतमिदं सर्वं यद्भूतं यच्च भाव्यम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥२१॥ जिससे भूत और भविष्य, सभी पवित्र हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे॥२१॥
Om Kleem Krishnaye Namah MantraJaap ॐ क्लीं कृष्णाय नमः मंत्रजाप ★ ॐ एक ऐसा एक अक्षर का मंत्र है जो ज्यादातर मंत्रों के आगे लगाए ही जाता है। कहा जाता है कि किसी भी मंत्र के आगे ॐ लगाने से उसकी शक्ति 100 गुना बढ़ जाती है। ॐ एक एंपलीफायर की तरह काम करता है जो किसी भी मंत्र के भी असर को 100 गुना तक बढ़ा सकता है। क्लीं बीज मंत्र काली देवी से संबंधित है और बहुत शक्तिशाली है। इस मंत्र के जाप से एक दिव्य आभा और आकर्षण शक्ति विकसित होती है जो दैवीय ऊर्जाओं के साथ-साथ भौतिक सुखों को आकर्षित करने में मदद करती है। यह जबरदस्त आकर्षण व समोहन शक्ति प्रदान करने वाला मंत्र है। कृष्णाय नमः का मतलब भगवान श्री कृष्ण को प्रणाम करना। कृष्णाय नमः का जाप करने से भगवान श्री कृष्ण की शक्तियां आप में आने लगती हैं। ॐ क्लीम कृष्णाय नमः का अर्थ है यह श्री कृष्ण मेरा प्रणाम स्वीकार करें तथा जीवन की बाधाओं से मुझे मुक्ति प्राप्त कराएं। “ॐ क्लीं कृष्णाय नमः” एक शक्तिशाली मंत्र है जो आंतरिक आध्यात्मिक ऊर्जा का आह्वान करता है जिसका लगातार जप किया जाता है इसलिए जो लोग आध्यात्मिक विकास चाहते हैं उनके लिए भी फायदेमंद है। इस मंत्र के जाप से सम्मोहक आभा प्राप्त होती है अर्थात यह मंत्र व्यक्ति की आकर्षण शक्ति को बढ़ाने में मदद करता है। यह आय के स्रोत खोलने और व्यक्ति को समृद्ध बनाने में मदद करता है। अगर किसी को आध्यात्मिक विकास चाहिए तो भी यह मंत्र बहुत मदद करेगा। यह मंत्र भगवान कृष्ण के साथ-साथ देवी काली के आशीर्वाद को आकर्षित करने में मदद करता है। “ॐ क्लीं कृष्णाय नमः” मंत्र व्यक्ति को नकारात्मक ऊर्जाओं से भी बचाता है, काले जादू से भी बचाता है । इसके जप से जीवन में खुशियों का प्रवेश होता है । व्यक्ति को रिश्तों में सफलता मिलती है। इस मंत्र का जाप सफल करियर, सफल सामाजिक जीवन, सफल प्रेम जीवन आदि बनाने में मदद करता है।
Mrityunjay Manas Puja Stotra मृत्युंजय मानस पूजा स्तोत्र ★ कैलासे कमनीयरत्नखचिते कल्पद्रुममूलेस्थितं, कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्। गंगातुंग तरंगरंजित जटाभारं कृपासागरं, कण्ठालंकृत शेषभूषणममुं मृत्युंजयं भावये ॥१॥ आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे । स्वभक्तसंरक्षण कामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥२॥ भास्वन्मौक्तिक तोरणे मरकत स्तंभायुतालंकृते, सौधे धूपसुवासिते मणिमये माणिक्य दीपाञ्चिते । ब्रह्मेन्द्रामर योगिपुंगव गणैर्युक्ते च कल्पद्रुमैः, श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥ मन्दारमल्ली करवीरमाधवी पुंनाग नीलोत्पल चम्पकान्वितैः। कर्पूरपाटीर सुवासितैर्जलै राधत्स्व मृत्युंजय पाद्यमुत्तमम्॥४॥ सुगंधपुष्पप्रकरैः सुवासितै- र्वियन्नदी शीतलवारिभिः शुभैः । त्रिलोकनाथार्ति हरार्घ्यमारा-गृहाण मृत्युंजयसर्ववन्दित ॥५॥ हिमांबु वासितैस्तोयैः शीतलैरतिपावनैः । मृत्युंजय महादेव शुद्धाचमनमाचर ॥६॥ दधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तं । शुभकर मधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७॥ पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर । पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥८॥ जगत्त्र्यीख्यात समस्ततीर्थ समाहृतैः कल्मषहारिभिश्च । स्नानं सुतोयैः समुदाचर त्वं मृत्युंजयानन्त गुणाभिराम ॥९॥ आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात्। मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥ नानाहोम विचित्राणि चीरचीनांबराणि च। विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११ ॥ विशुद्धमुक्ताफल जालरम्यं मनोहरं काञ्चनहेमसूत्रम् । यज्ञोपवीतं परमं पवित्र माधत्स्व मृत्युंजय भक्तिगम्य ॥१२॥ श्रीगन्धं घनसारकुंकुमयुतं कस्तूरिकापूरितं, कालेयेन हिमांबुना विरचितं मन्दारसंवासितम्। दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं, सर्वांगेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥ १३ ॥ अक्षतैर्धवलैर्दिव्यैः सम्यक्तिल समन्वितैः । मृत्युंजय महादेव पूजयामि वृषध्वज ॥१४॥ चंपकपंकज कुरवक कुन्दैः करवीरमल्लिका कुसुमैः । विस्तारय निजमकुटं मृत्युंजय पुण्डरीक नयनाप्त ॥१५॥ माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे । पादौ सद्पद्मसदृशौ मृत्युंजय निवेशय ॥१६॥ माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापित कुण्डलैश्च । मन्ञ्जीरमुख्याभरणै र्मनोज्ञै-रंगानि मृत्युंजय भूषयामि ॥१७॥ गजवदनस्कन्दधृते-नातिस्वच्छेन चामरयुगेन। गलदलकाननपद्मं मृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥ मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तं । माणिक्यसंस्थापितहेमकुंभं सुरेश मृत्युंजय तेऽर्पयामि ॥१९॥ मणिमुकुरे निष्पटले त्रिजगद्गाढांधकार सप्ताश्वे । कन्दर्पकोटिसदृशं मृत्युंजय पश्य वदनमात्मीयम् ॥२०॥ कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च । समुद्भवं पावनगन्धधूपितं मृत्युंजयाङ्गं परिकल्पयामि ॥२१॥ वर्तित्रयोपेतम खण्डदीप्त्या तमोहरं बाह्य मथान्तरं च । साज्यं समस्तामर वर्गहृद्यं सुरेश मृत्युंजय वंशदीपम् ॥२२॥ राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रेस्थितं, हिंगुजीरक सन्मरीचि मिलितैः शाकैरनेकैश्शुभैः । साकं सम्यगपूप सूपसहितं सद्योघृतेनाप्लुतं, श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥२३॥ कूष्माण्डवार्ता कपटोलिकानां फलानि रम्याणि च कारवल्या । सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युंजय भक्षयेश ॥२४॥ शीतलं मधुरं स्वच्छं पावनं वासितं लघु मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥ शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् । कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥२६॥ केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः । एलामरीचि मिलितं मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥२७॥ रंभाचूत कपित्थकण्टक फलैर्द्राक्षारस स्वादुमत्, खर्जूरैर्मधुरेक्षु खण्डशकलैः सन्नारि केलांबुभिः। कर्पूरणसुवासितै र्गुडजलैर्माधुर्य युक्तैर्विभो, श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम् ॥२८॥ मनोज्ञ रंभाफल खण्डखण्डितान् रुचिप्रदान् सर्षपजीरकांश्च । ससौरभान् सैन्धवसेवितांश्च गृहाण मृत्युंजय लोकवन्द्य ॥२९॥ हिंगुजीरकसहितं विमलामलकं कपित्थ मतिमधुरं । बिसखण्डांल्लवणयुतान् मृत्युंजय तेऽर्पयामि जगदीश ॥३०॥ एलाशुण्ठिसहितं दध्यन्नं चारुहेमपात्रस्थम्। अमृतप्रतिनिधि माढ्यं मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥ जंबीर नीराञ्चित शृंगबेरं मनोहरानम्ल शलाटुखण्डान् । मृदूपदंशान् सहसोपभुङ्क्ष्व मृत्युंजय श्रीकरुणासमुद्र ॥३२॥ नागररामायुक्तं सुललित जंबीरनीर संपूर्णम्। मथितं सैन्धवसहितं पिब हर मृत्युंजय क्रतु ध्वंसिन् ॥३३॥ मन्दारहेमांबुज गन्धयुक्तै-र्मन्दाकिनीनिर्मलपुण्यतोयैः। गृहाण मृत्युंजय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥ गगनधुनी विमलजलै-र्मृत्युंजय पद्मरागपात्रगतैः। मृगमद च
Brahmastra Bagalamukhi Kavacham ब्रह्मास्त्र बगलामुखी कवचम् श्रीब्रह्मोवाच । विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो । मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ॥ १॥ तस्य मे कवचं ब्रूहि येनाहं सिद्धिमाप्नुयाम् ॥ भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ॥ २॥ श्रीदक्षिणामूर्तिरुवाच । शृणु ब्रह्मन् परं गुह्य ब्रह्मास्त्रकवचं शुभम् । यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ॥ ३॥ सुदर्शनं मया दत्तं कृपया विष्णवे तथा । तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कवयाम्यहम् ॥ ४॥ अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् । सर्वतेजोमयं सर्वं सामर्थ्यं विग्रहं परम् ॥ ५॥ सर्वशत्रुक्षयकरं सर्वदारिद्र्यनाशनम् । सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ॥ ६॥ न तस्य शत्रवश्चापि भयं चौर्यभयं जरा । नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ॥ ७॥ तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः । यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ॥ ८॥ स एव पुरुषो लोके केवलः शङ्करोपमः । न देयं परशिष्याय शठाय पिशुनाय च ॥ ९॥ दातव्यं भक्तियुक्ताय गुरुदासाय धीमते । कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ॥ १०॥ अस्यानुष्टप् छन्दः स्यात् श्रीबगला चास्य देवता । बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ॥ ११॥ कीलकं विनियोगश्च स्वकार्ये सर्वसाधके । अथ ध्यानम् । शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् । पीतगन्धानुलिप्ताङ्गीं पीतरत्नविभूषणाम् ॥ १॥ पीनोन्नतकुचां स्निग्धां पीतलाङ्गीं सुपेशलाम् । त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ॥ २॥ वज्रारिरसनापाशमुद्गरं दधतीं करैः । महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ॥ ३॥ प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् । सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ॥ ४॥ एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् । अथ रक्षाकवचम् । बगला मे शिरः पातुः ललाटं ब्रह्मसंस्तुता । बगला मे भ्रुवौ नित्यं कर्णयोः क्लेशहारिणी ॥ १॥ त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा । मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ॥ २॥ ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला । सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ॥ ३॥ अकल्मषा मुखे पातु चिबुके बगलामुखी । धीरा मे कण्ठदेशे तु कण्ठाग्रे कालकर्षिणी ॥ ४॥ शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका । कण्ठमूले महाभोगा स्कन्धौ शत्रुविनाशिनी ॥ ५॥ भुजौ मे पातु सततं बगला सुस्मिता परा । बगला मे सदा पातु कूर्परे कमलोद्भवा ॥ ६॥ बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला । बगलाश्रीर्हस्तयोश्च कुरुकुल्ला कराङ्गुलिम् ॥ ७॥ नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी । स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ॥ ८॥ उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता । पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ॥ ९॥ पार्श्वयोर्हनुमद्वन्द्या पशुपाशविमोचिनी । करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ॥ १०॥ भगमाला तु गुह्यं मे लिङ्गं कामेश्वरी तथा । लिङ्गमूले महाक्लिन्ना वृषणौ पातु दूतिका ॥ ११॥ बगला जानुनी पातु जानुयुग्मं च नित्यशः । जङ्घे पातु जगद्धात्री गुल्फौ रावणपूजिता ॥ १२॥ चरणौ दुर्जया पातु पीताम्बा चरणाङ्गुलीः । पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ॥ १३॥ सर्वाङ्गं बगला देवी पातु श्रीबगलामुखी । ब्राह्मी मे पूर्वतः पातु माहेशी वह्निभागतः ॥ १४॥ कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः । ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ॥ १५॥ रणे राजकुले वादे महायोगे महाभये । बगला भैरवी पातु नित्यं क्लीङ्काररूपिणी ॥ १६॥ फलश्रुतिः । इत्येवं वज्रकवचं महाब्रह्मास्त्रसंज्ञकम् । त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ॥ १॥ न तस्य शत्रवः केऽपि सखायः सर्व एव च । बलेनाकृष्य शत्रुं स्यात् सोऽपि मित्रत्वमाप्नुयात् ॥ २॥ शत्रुत्वे मरुता तुल्यो धनेन धनदोपमः । रूपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ॥ ३॥ सनकादिसमो धैर्ये श्रिया विष्णुसमो भवेत् । तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ॥ ४॥ नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुयात् । द्वितीया सूर्यवारेण यदा भवति पद्मभूः ॥ ५॥ तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्नुयात् । याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ॥ ६॥ सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः । दारिद्र्यान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ॥ ७॥ सर्वान् कामानवाप्नोति सविषो निर्विषो भवेत् । ऋणं निर्मोचनं स्याद् वै सहस्रावर्तनाद् विधे ॥ ८॥ भूतप्रेतपिशाचादिपीडा तस्य न जायते । द्युमणिर्भ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ॥ ९॥ स्थिराभया भवेत् तस्य यः स्मरेद् बगलामुखीम् । जयदं बोधनं कामममुकं देहि मे शिवे ॥ १०॥ जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥ ११॥
Shri Parshvanath Lakshmi Stotram श्री पार्श्वनाथ लक्ष्मी स्तोत्रम् ★ लक्ष्मीर्महस्तुल्यसती सती सती प्रवृद्धकालो विरतो रतो रतो। जरारुता जन्महता हता हता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ अमाद्यं सुमना मना मना यः सर्वदेशो भुवि नाविना विना । समस्त विज्ञानमयो मयो मयो पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ विनेष्ट जन्तोः शरणं रणं रणं क्षमादितो यः कमठं मठं मठं । नरामरा रामक्रमं क्रमं क्रमं पार्श्व फणे रामगिरौ गिरौ गिरौ ।। अज्ञान सत्काम लता लता लता यदीय सद्भानता नता नता। निर्वाण सौख्यं सुगता गता गता पार्श्वफणे रामगिरौ गिरौ गिरौ । । विवादिता शेष विधिर्विधिर्विधि र्बभूव सर्प्यवहरी हरी हरी । त्रिज्ञान सज्ञान हरो हरो हरो पार्श्वं फणे रामगिरौ गिरौ गिरौ ।। यद्विश्व लोकैक गुरुं गुरुं गुरुं विराजिता येन वरं वरं वरं । तमाल नीलांगभरं भरं भरं पार्श्व फणे रामगिरौ गिरौ गिरौ ।। संरक्षितो दिग्भुवनं वनं वनं विराजिता येषु दिवै दिवै दिवैः। पादद्वये नूत सुरासुराः सुराः पार्श्व फणे रामगिरौ गिरौ गिरौ ।। रराज नित्यं सकला कला कला ममारतृष्णो वृजिनो जिनो जिनो । संहारपूज्यं वृषभा सभा सभा पार्श्व फणे रामगिरौ गिरौ गिरौ ।। तर्के व्याकरणे च नाटकचये काव्याकुले कौशले । विख्यातो भुवि पद्मनन्दि मुनिपस्तत्वस्य कोषं निधिः । । गंभीरं यमकाष्टकं पठति यः संस्तूयसा लभ्यते । श्री पद्मप्रभदेव-निर्मितमिदं स्तोत्रं जगन्मंगलम् ॥ ।। इति श्री पद्मप्रभ देव विरचितं पार्श्वनाथ स्तोत्रं समाप्तम्।।
Ann Suktam (Rigveda) अन्न सूक्तम् (ऋग्वेद) ★ (ऋ।वे।१।१८७।१) पि॒तुं नु स्तो॑षं म॒हो ध॒र्माण॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्व॒म॒र्दय॑त् ॥ १ स्वाद पितो॒ मधु॑ पितो व॒यं त्वा॑ ववृमहे अ॒स्माक॑मवि॒ता भ॑व ॥ २ ॥ उप॑ नः पित॒वा च॑र शिवः शिवाभि॑रू॒तिभिः॑ । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥ ३ तव॒ त्ये पि॑तो॒ रसा॒ रजो॑स्य॒ विष्टि॑ताः । दि॒वि वाता॑ इ॒व त्रि॒ताः ॥ ४ ॥ तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥ ५ ॥ त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥ ६ ॥ यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् । अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ ग॒म्याः ॥७ ॥ यद॒पामोष॑धीनां॒ परि॒शमा॑रि॒शाम॑हे । वाता॑पे॒ पीव॒ इद्रे॒व ॥ ८ ॥ यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे । वाता॑ व॒ इद्रे॒व ॥ ९ ॥ क॒र॒म्भ औषधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः । वाता॑षे॒ पीव॒ इद्रे॒व ॥ १० ॥ तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्य॑ त्वा सध॒माद॑म् ॥ ११ ॥
Shri Hari Stotram श्रीहरि स्तोत्रम् ★ जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायं सुपद्मासहायम् भजेऽहं भजेऽहं ॥1 सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2 रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपं ध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3 जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनं जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥4 कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानं स्वभक्तानुकूलं जगद्व्रुक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहं ॥5 समस्तामरेशं द्विरेफाभकेशं जगद्विम्बलेशं ह्रुदाकाशदेशं सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥6 सुरालिबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठं सदा युद्धधीरं महावीरवीरं महाम्भोधितीरं भजेऽहं भजेऽहं ॥7 रमावामभागं तलानग्रनागं कृताधीनयागं गतारागरागं मुनीन्द्रैः सुगीतं सुरैः संपरीतं गुणौधैरतीतं भजेऽहं भजेऽहं ॥8 फलश्रुति इदं यस्तु नित्यं समाधाय चित्तं पठेदष्टकं कण्ठहारम् मुरारे: स विष्णोर्विशोकं ध्रुवं याति लोकं जराजन्मशोकं पुनर्विन्दते नो ॥ ★
Kaal Ashtami MantraJaap काल अष्टमी मंत्रजाप 108 times ★ भगवान काल भैरव भले ही शिव के उग्र अवतार माने गए हैं लेकिन अपने सच्चे भक्तों पर वह कृपा दृष्टि बनाए रखते हैं. कालाष्टमी पर वैसे तो रात्रि में पूजा अधिक फलदायी है लेकिन परिवारजन इस दिन सुबह के समय साधारण पूजा कर सकते हैं। यह पूजा करने पर काल भैरव साधक के सभी प्रकार के भय हर लेते हैं. गृहस्थ जीवन वाले भूलकर भी तामसिक पूजा न करें.पूजा स्थल को गंगा जल से शुद्ध करके वंहा लकड़ी की चौकी पर भगवान शिव और माता पार्वती की तस्वीर स्थापित कर उन्हें पुष्प, चंदन, रोली अर्पित करें। फिर भगवान कालभैरव का स्मरण करते हुए नारियल, इमरती, पान, का भोग लगाएं. चौमुखी दीपक लगाकर इस मंत्र का रुद्राक्ष की माला से 108 बार जाप करें। ★ ॐ ह्रीं वां बटुकाये क्षौं क्षौं आपदुद्धाराणाये कुरु कुरु बटुकाये ह्रीं बटुकाये स्वाहा ।। ★
Kaal Bhairav Stotram काल भैरव स्तोत्रम् • नमो भैरवदेवाय नित्ययानंदमूर्तये । विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ।। दिगंबराय कालाय नमः खट्वांगधारिणे । विभूतिविलसद्भालनेत्रायार्धेंदुमालने ।। कुमारप्रभवे तुभ्यं बटुकायमहात्मने । नमोsचिंत्यप्रभावाय त्रिशूलायुधधारिणे ।। नमः खड्गमहाधारहृत त्रैलोक्य भीतये । पूरितविश्वविश्वाय विश्वपालाय ते नमः ।। भूतावासाय भूताय भूतानां पतये नम । अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ।। कं कालायातिघोराय क्षेत्रपालाय कामिने । कलाकाष्टादिरूपाय कालाय क्षेत्रवासिने ।। नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालने । विद्यानां गुरवे तुभ्यं विधिनां पतये नमः ।। नमः प्रपंचदोर्दंड दैत्यदर्प विनाशने । निजभक्त जनोद्दाम हर्ष प्रवर दायिने ।। नमो जंभारिमुख्याय नामैश्वर्याष्टदायिने । अनंत दुःख संसार पारावारान्तदर्शिने ।। नमो जंभाय मोहाय द्वेषायोच्याटकारिणे । वशंकराय राजन्यमौलन्यस्त निजांध्रये ।। नमो भक्तापदां हंत्रे स्मृतिमात्रार्थ दर्शिने । आनंदमूर्तये तुभ्यं श्मशाननिलयाय् ते ।। वेतालभूतकूष्मांड ग्रह सेवा विलासिने । दिगंबराय महते पिशाचाकृतिशालने ।। नमोब्रह्मादिभर्वंद्य पदरेणुवरायुषे । ब्रह्मादिग्रासदक्षाय निःफलाय नमो नमः ।। नमः काशीनिवासाय नमो दण्डकवासिने । नमोsनंत प्रबोधाय भैरवाय नमोनमः ।। •
Saraswati Mantra सरस्वती मंत्र ॐ श्री सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् कोटिचंद्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् वह्निशुद्धां शुक्लाधानां वीणापुस्तकधारिणीम् रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् सुपूजितां सुरगणैब्रह्मविष्णुशिवादिभि: वन्दे भक्तया वन्दिता च मुनीन्द्रमनुमानवै: श्री सरस्वती दूध जैसे सफेद रंग की, मुस्कुराती हुई, सुंदर, करोड़ों चंद्रमाओं की आभा से युक्त, उज्ज्वल, पुष्ट, शुभ चिन्हों से युक्त, जैसे अग्नि में तप कर स्वच्छ हुई, श्वेत वस्त्रों में, हाथों में वाद्य यंत्रों में सर्वोत्तम वीणा और ज्ञान का भंडार पुस्तक धारण करने वाली, सर्वोत्तम रत्नों के द्वारा बनाए गए आभूषणों से सुशोभित, ब्रह्मा, विष्णु, शिव और अन्य देवताओं द्वारा, साथ ही मुनियों में श्रेष्ठ मुनि, और मनु के वंशज मनुष्यों द्वारा पूजी जाती हैं।
Shri Bageshwar Dham Balaji Mantra श्री बागेश्वर धाम बालाजी मंत्र ‡ ॐ बागेश्वराय वीर वीराये हुं फट स्वाहा ‡
Mukund Mala Stotram मुकुन्दमाला स्तोत्रम्
Shiv Mala Mantra शिव माला मंत्र ★ ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललौकैकभर्त्रे सकललोकैकह सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय सकललोकैकशङ्कराय शशाङ्कशेखराय शाश्वतनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निरामयाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशचि मुखदंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वलज्ज्वल महामृत्युभयं अपमृत्युभयं नाशय नाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरभयं मारय मारय मम शत्रूनुच्चाटयोच्चाटय शूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्धि छिन्धि खट्वाङ्गेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय रक्षांसि भीषय भीषय भूतानि विद्रावय विद्रावय कूष्माण्डवेतालमारीगणब्रह्मराक्षसान्सन्त्रासय सन्त्रासय ममाभयं कुरु कुरु वित्रस्तं मामाश्वास याश्वासय नरकभयान्मामुद्धारयोद्धारय सञ्जीवय सञ्जीवय क्षुत्तृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ।
Ganpati Shadakshar Mantra गणपति षडाक्षर मंत्र ★ यह मंत्रराज साधको को अभीष्ट देता है । मंत्रोच्चारण ★ वक्रतुण्डाय हुम् ★
Nav Yogindra Stotram नवयोगीन्द्र स्तोत्रम् ★ वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् । मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥ वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् । नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥ वन्दे जालन्धरं नाथं योगीन्द्रं चान्तरिक्षकम् । तच्छिष्यं कानिफं वन्दे प्रबुद्धं बुद्धिनायकम् ॥३॥ वन्देहं चर्पटीनाथं पिप्पलायनसंज्ञकम् । आविर्होत्रं च योगीन्द्रनागनाथं नमाम्यहम् ॥४॥ नमो भर्तरीनाथाय योगीन्द्रद्रुमिलाय च । नमो रेवणसिद्धाय चमसाय च योगिने ॥५॥ नमो गहिनीनाथाय करभाजनयोगिने । प्रणमामि श्रीनिव्रुत्तिनाथं ज्ञानेश्वरं तथा ॥६॥ सोपानं मुक्तिजननीं दत्तछात्रपरम्पराम् । वन्दे दत्तगुरुं वासुदेवं गुरुपरात्परम् ॥७॥ योगिराजावतारं तं योगज्ञानाब्धिनाविकम् । मूलप्रकृतिकविष्ण्वीशावतारा: पान्तु न: सदा ॥८॥ इति नवयोगीन्द्रस्तोत्रम्